SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आस्गादः तीर्थंकराणामतिशया: -मुनिधर्मकीर्तिविजयः। कथ्यन्ते जिनशासने उत्तमजीवाः ‘शलाकापुरुषाः' इति । तत्राऽपि तीर्थकरा: 'उत्तमोत्तमशलाकापुरुषाः' । अस्मिन् काले चतुर्विंशतिः तीर्थकरा जाता इति मन्यन्ते जैनाः । तेषु श्रीमहावीरजिनेश्वरः अन्तिमतीर्थकरोऽस्ति । तस्य भगवतः इदं षड्विंशतशततमं जन्मवर्षं प्रवर्तते । पूर्वभवेष्वपि तीर्थकरजीवः तथाभव्यत्वस्य परिपाकेन नैकविशिष्टगुणैश्च अन्येभ्यो जीवेभ्य उत्तमो भवति । चरमभवापेक्षया पूर्वस्मिन् तृतीये भवे तीर्थकरनामकर्म उपार्जयति भावितीर्थकरात्मा । तत्क्षणादारभ्यैव तीर्थकरनामकर्मणः प्रदेशोदयः तेनाऽनुभूयते । तत्प्रदेशोदयवशादन्येभ्यो जीवात्मभ्यः तस्याऽत्मनः तेजोरूपलावण्यैश्वर्यसौभाग्यगाम्भीर्य धैर्यसर्वप्रियत्वनिर्भयत्वनिर्दोषत्वसरलतानिरभिमानित्वादयो गुणा अधिकत्वेन वैशिष्ट्यं धारयन्ति । पूर्वतृतीयभवापेक्षया अन्तिमभवे तु तीर्थकरात्मन ईशित्वं निरुपमानं भवति । स सुरासुरेन्द्रनृपवृन्दैः पूजनीयः स्तवनीयश्च भवति । तथा त्रैलोक्यस्याऽधिपतित्वमपि धारयति । एवं चरमभवे तीर्थकरात्मा परमैश्वर्यं प्राप्नोति । किञ्च- जैनसिद्धान्तपरिभाषया चरमभवे ईदृशः तीर्थकरजीवः चतुस्त्रिंशदतिशयैरलङकृतो विद्यते । यद्यपि अत्र न केवलं चतुस्त्रिंशदेवाऽतिशयाः, अपि त्वनन्ता अतिशयाः सन्ति; यतः तीर्थकरात्मनः च्यवनादारभ्य निर्वाणपर्यन्तं सर्वाऽपि अवस्थाऽलौकिका भवति । अन्येषां जीवानां काऽप्यवस्था तीर्थकरस्याऽवस्थया सह तुल्यत्वं धारयितुं न समर्था । तत एव तीर्थकरस्य सर्वाऽप्यवस्था ‘अतिशयः' इत्यभिधीयते । तथाऽपि अस्मादृशां बालजीवानां बोधार्थं चतुस्त्रिंशदेवऽतिशयाः शास्त्रेषु वर्णिताः । एवं "तीर्थकरस्य अन्तिमभव एवाऽतिशयः" इति कथने नास्त्यतिशयोक्ति: काऽपि । अतिशयः कः? जगतोऽप्यतिशेरते तीर्थकरा एभिरित्यतिशयाः । Jain Education International ३९ For Private Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy