________________
४.
भगवदर्शनं कर्तुं शक्ता भवन्ति । अन्यथा भगवतः तेजोमयमुखारविन्दं निरीक्षितुं न कोऽपि समर्थो भवेत् । चतुर्षु दिक्षु पञ्चविंशतियोजनाधिकं ऊर्ध्वाधोदिशोः त्रयोदशार्धयोजनं भवेत् । एवं पञ्चविंशत्यधिकयोजनशतं भवति । यत्र यत्र भगवान् विहरति तत्र तत्र पञ्चविंशे योजनशते नोद्भवन्ति रोगाः, षण्मासपूर्वमपि उत्पन्नाः सर्वेऽपि रोगाः शमं यान्ति । तथाऽऽगामिमासषट्कपर्यन्तं नवीना अपि रोगा न प्रादुर्भवन्ति । ५-११- यत्र यत्र भगवान् विहरति तत्र तत्र पञ्चविंशे योजनशतेवैरं नश्यति । भगवतः प्रभावेण जन्मजातं वैरं धारयन्तः प्राणिगणा अपि प्रशान्ता
भवन्ति । ६. ईतिः धान्याद्युपद्रवकारिणा मूषकादिप्राणिना उपद्रवरूपः, सोऽपि नोत्पद्यते । ७. मारिः (औत्पातिकं) सर्वगतं मरणं न भवति । ८. अतिवृष्टिः निरन्तरं वर्षणं न भवति । ९. अवृष्टिः सर्वथा वृष्ट्यभावो न भवति । १०. दुर्भिक्षं धान्यानामभावो न भवति । ११. स्वराष्ट्रात् परराष्ट्राच्च भयं न भवति । ___ अथ एकोनविंशतिः देवकृता अतिशया वर्ण्यन्ते । १. गगने देवा धर्मप्रकाशकं धर्मचक्रं कुर्वन्ति । विहरतो भगवत उपरि निर्जरा खे धर्मचक्र
चालयन्ति । एतद्धर्मचक्रं दशाऽपि दिश उद्योतयति । २. विहरतो भगवतः पार्वे तथोपरि नभसि विबुधाः चामरान् वीजयन्ति । ३. विद्यतेऽनन्ते निर्मलस्फटिकरत्नमयमुज्ज्वलं सपादपीठं मृगेन्द्रासनम् । यदा भगवानासीत
तदा तन्मृगेन्द्रासनं यथोचिते स्थाने सुराः समारचयन्ति । ४. वियति देवाः छत्रत्रयं प्रकुर्वन्ति । यदा भगवानासीत तदा मस्तकस्योपरि समुचिते
स्थाने छत्रत्रयं निर्जराः स्थापयन्ति । ५. दीप्यते सुरवर्त्मनि नैककेतनैः सुशोभितो रत्नमयो ध्वजः ।
तता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org