SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ६. भगवतः पादन्यासार्थं त्रिदशाः सुवर्णपङ्कजानि कुर्वते । केवलज्ञाने प्राप्ते सति अंही भूमि न स्पृशतो भगवतः, ततो विहरन् भगवान् देवनिर्मितचामीकरारविन्दानामुपरि चरणन्यासं कुरुते । भगवतो मधुरदेशनायाः स्थानरूपे समवसरणेऽमरा रजतसुवर्णरत्नमयं प्राकारत्रयं कुर्वन्ति । तत्र वैमानिकदेवाः सर्वोत्कृष्टरत्नमण्डितं प्राकारं निर्मिमते, ज्योतिष्कदेवा मनोज्ञं सुवर्णमयं वप्रं समारचयन्ति, तत्पश्चाद्भवनपतिदेवा रूप्यमयं प्राकारं कुर्वन्ति । ८. समवसरणे देशनाकाले स्वयं भगवान् पूर्वदिशि सिंहासनस्योपरि विराजते । अन्यस्मिन् दिक्त्रये व्यन्तरदेवाः प्रभोः शरीरस्य प्रतिकृतीः निर्मिमते । एवं जीवानां कल्याणार्थं विभुः चतुर्मुखीभूय निर्मलां हितकारिणी मधुरां च देशनां ददाति ।। विबुधाः चैत्याभिधानं द्रुममशोकवृक्षं रचयन्ति । एष वृक्षः सर्वदा भगवतः संनिधावेव तिष्ठति । सदैतवृक्षस्योपरि निखिलतूंनां सुगन्धितपुष्पनिकुरम्बा विलसन्ति । भवति स वृक्षः एकयोजनप्रमाणविस्तृतः । १०. विहरतो भगवतो मार्गे कण्टका अप्यधोमुखा भवन्ति । ११. विहरतः प्रभोः द्वयोरपि पार्श्वयोः पादपपङ्क्तिः नम्रतां धारयति । १२. वियति त्रिदशा उच्चैः विश्वव्यापिनं दुन्दुभिनादं कुर्वन्ति । १३. वायुरपि सुखत्वेनाऽनुकूलो भवति । न वाति विभोः सन्मुखं वायुः; अपि तु पश्चादेव वाति, ततो वायुः सुखरूपो भवति ।। १४. विहरतो भगवतो खे उड्डीयमाना वनप्रियनीलकण्ठशुकादय उत्तमपक्षिणोऽपि दक्षिणावर्ते प्रदक्षिणं ददति । १५. यस्मिन् क्षेत्रे प्रभुः विराजते तस्मिन् क्षेत्रे रजोवृन्दं शमयितुं मेघकुमारदेवा उत्तमतमसुगन्धिद्रव्यान्वितजलानां वृष्टिं कुर्वन्ति । १६. भगवतोऽग्रे सुरा जानुप्रमाणं पञ्चवर्णानां पुष्पाणां वर्षणं कुर्वते । १७. दीक्षाकालादारभ्यैव विभोः केशानां लोम्नां श्मश्रुणः कूर्चस्य च पाणिपादजानां नखानां न वृद्धिः भवति, किन्तु ते वर्तन्तेऽवस्थितस्वभावत्वेनैव । १८. घाति-अघातिसमस्तकर्मव्यूहानां क्षयेन केवलज्ञानेऽवाप्ते सति जघन्यतोऽपि ४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy