________________
भवनपतिव्यन्तरज्योतिष्कवैमानिकादिचतुर्विधानाममराणां कोटिः प्रभोः सदेशमेव
प्रवर्तते। १९. ऋतूनां वसन्तादीनां इन्द्रियार्थानां स्पर्शरूपरसगन्धशब्दानां च प्रादुर्भवनेन अनुकूलत्वं
भवति । एवं सहजाः चत्वारः, कर्मक्षयजा एकादश तथा देवकृता एकोनविंशतिः अतिशया इति चतुस्त्रिशद्भिरतिशयैः तीर्थकरोऽलङ्कृतो भवति ।
पारिभाषिकाणां कठिनशब्दानामर्थाः -
शलाकापुरुषाः
तथाभव्यत्वम् तीर्थकरनामकर्म
प्रदेशोदयः अतिशयः च्यवनम् निर्वाणम् वीर्योल्लासः समवसरणम् औत्पातिकम् घातिकर्म
चतुर्विशतिः तीर्थकराः, द्वादश चक्रवर्तिनः, नव वासुदेवाः, नव प्रतिवासुदेवाः, नव बलदेवा इति त्रिषष्ठिशलाकापुरुषाः एकस्यामुत्सपिण्यामवसर्पिण्यां चोत्पद्यन्ते इति मन्यन्ते जैनाः । मोक्षगमनस्य योग्यता। जिनशासने शताधिकाष्टपञ्चाशत्कर्मप्रकृतयो मन्यन्ते । तत्र त्रिनवतिषु नामकर्मप्रकृतिषु तीर्थकरनामकर्मणः उदयेन पुण्यानुबन्धिपुण्यरूपं परमैश्वर्यं जीवः प्राप्नोति । स तीर्थकरनामकर्म इत्याख्यायते। जिनमतानुसारेण कर्मोदयस्य प्रकारः । विशिष्टं ऐश्वर्यम् । मातुः कुक्षौ तीर्थकरात्मनः आगमनकालः । सकलकर्मक्षयं कृत्वा मोक्षगमनम् । जीवस्य आशयविशेषः । देवनिर्मितं भगवतो देशनास्थानम्। कस्मादपि निमित्त (उत्पात) वशाज्जातं वस्तु । आत्मनो ज्ञानदर्शनचारित्रवीर्यादिगुणानामाच्छादकं कर्म । तत्कर्म चतुर्विधम् यथा ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायं चेति । येन मोक्षगमनं बाध्यते ततकर्म अघातिकर्म कथ्यते । तदपि चतुर्धा यथा वेदनीयायुर्नामगोत्रमिति । निःशेषकर्मसमुदायक्षयस्य पश्चादुद्भवन्निर्मलं चराचरसमस्तवस्तुदशि ज्ञानम् । लोके उत्तमोत्तमः। -
अघातिकर्म
केवलज्ञानम् अलौकिकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org