________________
आस्वादः
चमणौ भयावान महावीर
- मुनिकल्याणकीर्तिविजयः अद्य किल संवत्सराणां षड्विंशतिः शतानि व्यतीतानि श्रीमतां चरमतीर्थभृतां परमोपकारकारिणां निष्कारणवात्सल्यमूर्तीणां महामहिम्नां श्रीमहावीरस्वामिनां जन्मोत्सवस्य । एनं प्रसङ्गमनुलक्ष्य किञ्चिदतीतं विलोकयामः । __ अथ तेषां पितृभ्यां श्रीसिद्धार्थमहाराज-त्रिशलादेवीभ्यां तेषु जननीकुक्षिस्थेष्वेव निजराज्ये सर्वत्र वर्धमानां समृद्धिं समवलोक्य तदनुसारेण निजाङ्गजस्य 'वर्धमानः' इति नाम कर्तव्यमिति सङ्कल्पितम् । पुत्रजन्मानन्तरं तु निजसङ्कल्पितं स्मृतिपथमानीय तन्नाम 'वर्धमानकुमारः' इति संस्थापितम् । तदा -
श्रमणः कः ? एते च भगवन्तः श्रीवर्धमानकुमारत्वं सुकुमारराजकुमारत्वं पित्रोः सिद्धार्थत्रिशलयोः प्रियपुत्रत्वं नन्दिवर्धन-सुदर्शनयोः स्निग्धभ्रातृत्वं यशोदाया: प्रेय:पतित्वं प्रियदर्शनाया वत्सलजनकत्वं जमालेरुदारश्वशुरत्वं अनेकेषां च सख्यं स्वाम्यं नयनालादकत्वं तथा विशेषतस्तु देहात्मत्वं सन्त्यज्य श्रमणीभूय तीव्र तपस्तप्तवन्तो गभीरं ध्यानं ध्यातवन्तः परीषहान् जितवन्त उपसर्गान् सोढवन्तो रागादीनान्तरशत्रून् पराभूतवन्तः क्लिष्टकर्मणां मर्माणि छेदितवन्तः कैवल्यनैर्मल्येन जगतः सर्वभावान् हस्तामलकवत् विलोकितवन्तो निजान्वयानुसारिण्यै वाचंयमपरम्परायै अपि श्रामण्याराधनमुपदिष्टवन्तस्तत् श्रामण्यं कीदृशं श्रमणाश्च कीदृशो भवन्ति? इतिविषयिणी जिज्ञासा परिचिचीषा च स्वान्यशास्त्रार्थसार्थादृष्यवैदुष्यशालिनां सुविचारविलासिनां मनीषिणां भवेदेव । अतस्तां शमयितुं शास्त्रस्य हस्तालम्बनं गृहीत्वा प्रथमं 'श्रमण' शब्दस्य निष्पत्ति विचारयामः । ___ लाक्षणिकव्युत्पत्त्या तु श्राम्यतीति श्रमणः, 'नन्द्यादिभ्योऽनः (सि.हे.५/१/५२)' इति सूत्रोक्तेनाऽनप्रत्ययेन कर्तरि श्रमणः भवति । तदर्थस्तु - सर्वेभ्योऽपि सूक्ष्म-स्थूलेभ्यो मनोवाकायजन्येभ्यः सावद्ययोगेभ्यः श्राम्यति विनिवर्तते विरमति वेति श्रमणः । स च संयतः साधुरेव भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org