________________
यदुक्तं श्रीदशवैकालिकसूत्रनिर्युक्तौ - भावेण उ संजओ समणो ।। १५३ ।। निरुक्तिश्च श्रमणशब्दस्याऽस्यामेव नियुक्तौ एवं व्याख्याता (प्राकृतभाषायां हि 'श्रमण' शब्दस्य 'समण' इति परावर्तनं भवति । तमाश्रित्य एषा निरुक्तिस्तीति) -
जह मम न पियं दुक्खं जाणिय एमेव सव्वजीवाणं ।
न हणेइ न हणावेइ य सममणई तेण सो समणो ॥१५८॥ अस्या भावार्थः - यथा स्वस्याऽऽत्मनः स्वल्पमपि कण्टकवेधनादिकं दुःखं नैवाऽभीप्सितं तथैवाऽस्मिन् भुवने जीवतां सर्वेषामपि कीटादिपुरन्दरपर्यवसानानां जन्मिनामणीयोऽपि दुःखं नैवेष्टम् । इत्येवं सर्वेषां दुःखप्रातिकूल्यं ज्ञात्वा यः स्वयमपि जीवान् न हन्ति न चाऽप्यन्यैर्घातयति घ्नन्तं चाऽन्यं नाऽनुमतिमपि दत्ते इत्यनेन प्रकारेण यः 'समं अणति' तुल्यं गच्छति सर्वत्राऽऽत्मसाम्येन पश्यति यतस्तेनाऽसौ समणः श्रमण इत्युच्यते। तथा -
नत्थि य सि कोइ वेसो पिओ व सव्वेस चेव जीवेस ।
एएण होइ समणो एसो अन्नो वि पज्जाओ ।। १५५ ॥ भावार्थः तस्य च सर्वत्र जीवेषु तुल्यमनस्कत्वेन नैव विद्यते कस्यचिदप्युपरिष्टाद् द्वेषो रोषो वा न चाऽपि कस्मिंश्चित् स्नेहो ममत्वं वा । एतेन स समं मनोऽस्येति निरुक्ताश्रयणेन सममनाः (प्राकृते सममणो - समणो) श्रमणो भवति । एषोऽपि तस्याऽन्यः पर्यायः कथितः ।
ता समणो जइ सुमणो भावेण य जइ न होइ पावमणो।
सयणे य जणे य समो समो य माणावमाणेसु ॥१५६ ॥ भावार्थः तत एव यदि श्रमणो द्रव्यतः शोभनं मनोऽस्येति कृत्वा सुमना भवति भावतस्तु पापसङ्गतचित्तो न भवति तदा तत्फलत्वेन स स्वीया एते इति कल्पितेषु स्वजनेषु परकीया एते इति कल्पितेषु इतरजनेषु च समानचित्तवृत्तिको भवति, तथा मानापमानयोः सत्कार
१. तुलना - आत्मवत् सर्वभूतेषु यः पश्यति स पश्यति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org