________________
तिरस्कारयोरपि स तुल्यमनस्को भवति, यतो यदा सर्वेऽपि जीवास्तुल्या एवेति तन्मनसि प्रत्ययो भवेत् तदा तस्य कः स्वजनः कश्च परजनः ? । किं सन्मानं किं चाऽवमाननमिति ? । अथ श्रमणः कीदृशो भवतीति प्रदर्शयितुं काश्चिदुपमाभिः स उपमेमीयते
उरग-गिरि-जलण-सागर-नभयल-तरुगणसमो य जो होइ ।
भमर-मिग-धरणि-जलरुह-रवि-पवणसमो जओ समणो ॥१५७॥ भावार्थः (१) उरगस्तु सर्पः , तत्समः श्रमणो भवति । सर्पो हि परेण कृते बिल एव
निवसति न तु स्वयं तद् बिलमारचयति । तथा यत् किमपि स्वयोग्यमन्नं सोऽनास्वादयन् गिलत्येव । तथा यत्र कुत्राऽपि परिसर्पन् स दत्तैकदृष्टिक एव भवति । ___एवं श्रमणोऽपि परकृतेष्वेवोपाश्रयेषु वसति न तु स्वयमेव तत्करोति स्वार्थं कारयति वाऽन्यैः । तथा यत् किमपि निर्दोषं भिक्षाटनेन लब्धमन्नं सरसं विरसं नीरसं वा तत् सर्वं केवलं देहवृत्त्यर्थमनासत्त्कतया मधुरमिदमिदं च स्वादरहितं शुष्कं वेत्याद्यचिन्तयन्नेव भुङ्क्ते । तथा गृहीतव्रतानां परिपालनायामेव न्यस्तनिष्ठो संयमैकलक्ष्यश्च भवति तद् ऋते च न किमपि पश्यति ।
(२) गिरिः पर्वतः, श्रमणोऽपि पर्वततुल्यो भवति । पर्वतो हि सदा स्थिरो महावातैरप्यकम्प्यो भवति ।
एवं श्रमणोऽपि परीषहोपसर्गादिकष्टेष्वपि स्खलनाहीनः सन् निश्चलं स्थैर्यमाबिभर्ति ।
(३) ज्वलनोऽग्निः स हि तेजःप्रधानो बहुभक्षणेऽप्यतृप्तो दारु-वस्त्रादीनि वस्तून्यविशेषतया ज्वालयति ।
एवमेव श्रमणोऽपि तपसस्तेजसा भ्राजमानः, स्वाध्याय-ध्यानादिषु सूत्रार्थयोरध्ययने च सर्वदाऽप्यतृप्तः, एषणीयानामशन-पान-वस्त्रादीनां ग्रहणेऽविशेषप्रवृत्तिकश्च भवति ।
(४) सागरोऽब्धिः , स च गभीरोऽसङ्ख्येयरत्नानामाकरो निजमर्यादायाश्च प्रतिपालको भवति ।
एवं श्रमणोऽपि स्वभावेन गम्भीरहृदयो ज्ञान-क्षमादिगुणानामाकरः व्रतमर्यादायाश्चाऽनुल्लङ्घको भवति ।
४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org