SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ (५) नभस्तलं हि सर्वदाऽऽलम्बनरहितं निर्लिप्तं च भवति । एवं श्रमणोऽपि सर्वत्र निरालम्बनः कथमपि रागादिना नैव लिप्यति । (६) तरुगणो वृक्षाणां समूहः । वृक्षा हि स्वयमातपं सहमाना अपि परेभ्यः शीतलां छायां ददति, फल-निवासाथिनां च विहगादिजीवानामाश्रयस्थानं भवति । एवं श्रमणोऽपि स्वयं तपसा तप्तोऽपि परार्थं तु सर्वदा शीतलो निःश्रेयसफलार्थिसत्त्वानां चाऽनुत्तममाश्रयस्थानमालम्बनं च भवति । (७) भ्रमरस्तु मधुकरः । स एकस्मादेव पुष्पात् कदाऽपि सर्वं रसं न लेढि किन्तु नाना पुष्पेभ्यस्तदप्यनियतवृत्त्यैव स्तोकस्तोकं रसं गृह्णन् तृप्यति । ___ एवं श्रमणोऽपि न स्वयमेवाऽन्नं पचति नाऽपि पाचयत्यन्यैर्वा किन्तु विविधेभ्यो गृहेभ्यस्तदपि अनैयत्यसमालम्बनेनैव स्तोकस्तोकां भिक्षां गृह्णाति न तु सदा एकस्मादेव गृहात् । एतेन भ्रमरात् पुष्पाणामिव ततोऽपि गृहस्थानां न काऽपि ग्लानिर्हानिर्वा भवेत् । (८) मृगो हरिणः , स हि सर्वदा मृगारि-व्याघ्रादिभ्यः श्वापदेभ्यो भीतः सर्वत्र सावधानं चरति । एवं श्रमणोऽपि संसारात् रागादिभ्यश्च संसारहेतुभ्यः सर्वदा बेभीयते सर्वत्र सावधानचित्तो विहरति च। (९) धरणिः पृथ्वी । सा तु सर्वंसहा सर्वकालं सर्वेषां भारं वहति कर्षणादिकं दुःखं च सहते। एवं श्रमणोऽपि तत्समः सर्वंसहो भूत्वाऽव्यग्रतया सर्वखेदसहिष्णुर्भवति । (१०) जलरुहं पङ्कजं, तत् तु पङ्के उत्पन्नमपि मलावलिप्तमुत्पत्तिस्थानं सन्त्यज्य तत ऊर्वीभूय वर्तते । एवं श्रमणोऽपि कामभोगादिपङ्के जातोऽपि तेनैव च वधितोऽपि सर्वमपि तन्निःसारं मत्वा यत्नेन च परित्यज्य संसारादूर्वीभूय निर्लिप्ततया वर्तते । (११) रविः सूर्यः । स हि स्वकीयेनोदारतेजसा सर्वमपि चराचरं जगत् प्रकाशयति । एवं श्रमणोऽपि स्वीयनिर्मलज्ञानरोचिषा जीवेभ्यो ज्ञानं देदीयमानस्तेषां चेतांसि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy