________________
प्रकाशयति ।
(१२) पवनो वायुः । स हि सर्वत्र प्रतिबन्धरहितो निराबाधतया वाति । एवं श्रमणोऽपि कुत्रचिदप्यासक्तिमकुर्वन् अप्रतिबद्धतया विहरति । इत्थमुरगादिसमो यतो भवति ततः स श्रमण उच्यते ।
अन्यत्राऽप्युक्तम् - विस-तिणिस-वाय-वंजुल-कणियारुप्पलसमेण समणेणं । भमरुंदुरु-भड-कुक्कुड-अद्दागसमेण होयव्वं ॥१॥
अस्याऽर्थः (१) विषं-गरलं, विषे हि सर्वेषां रसानामन्तर्भावात् न कस्यचिदपि रसस्याऽनुभवस्तस्मिन् भवति ।
एवं श्रमणेनाऽपि कस्यचिदपि रसस्याऽननुभावकतया सर्वरसानुपातितया सामरस्यैकरुचिना भवितव्यम् ।
(२) तिनिशोऽतिमुक्तकः ('नेतर' इति भाषायां वेत्रलता वा) स हि अतीवनम्रः स्थितिस्थापकश्च भवति ।
एवं श्रमणेनाऽपि अभिमानत्यागतो विनयननेण भवितव्यम् । (३) वातः पवनः । अत्र पूर्ववत् । (४) व लो वेतसः । एवं हि श्रूयते - किल वेतसं समवाप्य सर्पा निर्विषीभवन्ति ।
एवं श्रमणेनाऽपि स्वपार्श्वमागतानां जीवानां विषस्वरूपाः क्रोध-मद-मत्सरादयो दोषा अपनेतव्याः ।
(५) कर्णिकारपुष्पम् ('कणेर' इति भाषायाम्) तद्धि प्रकटं निर्गन्धं च भवति । एवं श्रमणोऽपि प्रकटचरितो रागादिगन्धापेक्षया य निर्गन्धो भवेत् । (६) उत्पलं कुमुदम् । तद्धि प्रकृतिशुक्लं सुगन्धि च वर्तते । एवं श्रमणोऽपि स्वभावनिर्मलो गुणामोदमाश्रित्य सुगन्धी भवति । (७) भ्रमरसम इति पूर्ववत् । (८) उन्दुरुर्मूषकः । स हि यथानुरूपं स्थलं समयं च परिप्रेक्ष्यैव संचरति, सङ्ग्रहशीलश्च
४८ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org