SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ भवति । एवं श्रमणोऽपि उपयुक्तं देशं कालं च समालोच्यैव वरीवृत्यते सूत्रार्थाद्यध्ययनापेक्षया च सङ्ग्रहशीलो भवति । (९) भट: सैनिकः । स तु शत्रुषु द्वेषयुक्तः सन् तान् जेतुं निजसमग्रशौर्येण युध्यते । एवं श्रमणोऽपि राग-द्वेषाद्यान्तरशत्रुजयार्थं निजसमस्तसामर्थ्येन यतते । (१०) कुक्कुटस्ताम्रचूड: । स कदाऽप्युदरम्भरिन भवति । प्राप्तं चाऽऽहारं पादविक्षेपपूर्वकमन्यसजातीयेभ्यो वितीर्य तैः सहैव भुङ्क्ते ।। एवं श्रमणोऽपि निजसाधमिकैः सह संविभागशीलो भवति । (११) आदर्शो दर्पणः । स हि नैर्मल्ययुक्तो भवति, तस्य च पुरस्ताद् यः कश्चिदपि गच्छति तप्रतिबिम्बं स यथाभूतं दर्शयति, तथाऽपि निर्लेपस्तिष्ठति । एवं श्रमणोऽपि स्वभावनिर्मलस्तरुण-वृद्धाद्यनुवृत्तितया च यथाकालं तैः सह तथाभूय वर्तते । यदुक्तं तरुणमि होइ तरुणो थेरो थेरेहिं डहरए डहरो। अदाओ विव रूवं अणुयत्तइ जस्स जं सीलं ।। १ ।। तथाऽपि न कुत्रचिदप्यासक्ति लिप्तिं वा भजति । एवं विषादिभिः समानशीलेन श्रमणेन भवितव्यम् । 'तत्त्व-भेद-पर्यायैर्व्याख्या' इतिन्यायाश्रयणेन श्रमणस्य पर्यायशब्दानभिधित्सुनियुक्तिकार आह - पव्वइए अणगारे पासंडे चरग तावसे भिक्खू । परिवाइए य समणे निग्गंथे संजए मुत्ते ॥१५८ ।। तिन्ने ताई दविए मुणी य खंते य दंत-विरए य। लूहे तीरढेऽवि य हवंति समणस्स नामाइं ॥१५९॥ २. तरुणेन भवति तरुणः स्थविर: स्थविरैः बालैः बालः । आदर्श इव रूपं अनुवर्तते यस्य यत् शीलम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy