SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ भावार्थः (१) प्रव्रजितः प्रकर्षेण पापकर्मभ्यः परिग्रहाच्च वजितः गतः दूरीभूत इत्यर्थः । (२) अनगारः अगारं गृहं, न विद्यते द्रव्यगृहं प्रासादादि भावगृहं च ममत्वादि यस्य सोऽनगारः। (३) पाखण्डी ३पाखण्डं व्रतं, तदस्याऽस्तीति पाखण्डी । उक्तमपि - पाखण्डं व्रतमित्याहुस्तद्यस्याऽस्त्यमलं भुवि। स पाखण्डी वदन्त्यन्ये कर्मपाशाद् विनिर्गतः ।। १ ।। अथवा पापं खण्डयतीति निरुक्तिसमाश्रयणेऽपि पाखण्डी । (४) चरकः चरति - आचरति तपो-ध्यानादीति चरकः । (५) तापसः तपोऽस्याऽस्तीति तापसः । (६) भिक्षुः भिक्षया देहयापनां करोतीति भिक्षुः । भिनत्ति वाऽष्टप्रकारं कर्मेति भिक्षुः । (७) परिव्राजकः परि समन्तात् व्रजति-विहरति पापवर्जनपूर्वमिति परिव्राजकः । (८) श्रमणः अत्र पूर्ववत् । (९) निग्रन्थः निर्गतो ग्रन्थादिति निग्रन्थः, धन-स्वजनादिबाह्यग्रन्थस्य राग-रोषा द्यान्तरग्रन्थस्य च त्यागीत्यर्थः । (१०) संयतः सम्यक्प्रकारेण एकीभावेन वा अहिंसादिषु योगेषु क्षमादिषु गुणेषु च यतः प्रयत्नशीलः संयतः । (११) मुक्तः बाह्येनाऽऽभ्यन्तरेण च परिग्रहेण मुक्तः मूर्छा-ममत्वादिभिर्मुक्तो वा। (१२) तीर्णः तीर्णवान् संसारसमुद्रम् । यद्यपि तीर्यमाणोऽधुना तेन संसारसागरस्तथाऽपि क्रियमाणं कृतमिति न्यायात् तीर्ण एव । (१३) त्रायी त्रायते रक्षते संसारकूपे प्रपततो जगज्जन्तूनित्येवंशीलः त्रायी । (१४) द्रव्यम् द्रवति - गच्छति - प्राप्नोति वा तांस्तान् ज्ञानादिप्रकारानिति द्रव्यम् । ३. अद्यत्वे हि पाखण्डशब्दः शाठ्य-कपटाद्यर्थे प्रयोयुज्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy