________________
-
(१५) मुनिः मन्यते सम्यक्तयाऽवबुध्यते जगतस्तत्त्वमिति मुनिः । (१६) क्षान्तः क्षाम्यतीति क्षान्तः क्रोधादिजयी । (१७) दान्तः पञ्चानामिन्द्रियाणां मनसश्च दमनाद् दान्तः । तद्वृत्तिनिरोधक इत्यर्थः । (१८) विरतः हिंसा-मृषावादादिभ्यो निवृत्तः। (१९) रूक्षः स्नेहपरित्यागात् रूक्षः, भोजनेऽपि स्निग्धाहारवर्जकत्वाद्वा रूक्षः । (२०) तीरार्थी संसारसमुद्रस्य तीरं अर्थयते इत्येवंशीलः तीरार्थी, तीरस्थो वा संसारस्य,
सर्वत्र साम्यसुधारसपानकरणात् ।। एतानि श्रमणस्य पर्यायतयाऽभिधेयानि कथितानि ।
अथैतावता विवरणेन श्रमणशब्दस्य तात्पर्य प्रायशः प्राप्तमेव स्यात् विचारचञ्चुभिः वरिष्ठैर्विद्वद्भिः ।
ततो भगवन्त'स्ते कथङ्कारं सञ्जाताः ? तेषां जीवने तादृशं किं वैशिष्ट्यमासीत् येन ते भगवत्तया समलङ्कृताः? निरूपयामस्तावत् -
भगशब्दो हि नैकेषु सन्दर्भेषु प्रयुक्तो दरीदृश्यते । तथा हि - ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः । धर्मस्याऽथ प्रयत्नस्य षण्णां भग इतीङ्गना ॥ १ ॥ एकैकशो विचारयामः
ऐश्वर्यम् - इतोऽपि किमन्यदैश्वर्यम् - यत् चतुःषष्टिर्निर्जरेन्द्रा असङ्ख्येया देव-देव्यो नैका मनुजकोटयश्च तेषां नलिनकोमलयोश्चरणाम्बुजन्मनोः परागरज उत्तमाङ्ग सन्दधाना धन्यभागधेयत्वं प्रतिपनीपद्यन्ते ?
रूपम् - सङ्ख्यातीता अपि इन्द्रादयो देवा एकत्र मिलित्वा तीर्थकराणामेकस्या एवाऽङ्गुल्या रूपं प्रतिच्छन्दायितुमक्षमाः ।
यशः - अलोके धर्मास्तिकायस्याऽभावात् स्वीयगतिनिरोधो भवतीति ज्ञात्वेवोन्मत्तीभूय त्रिभुवने सर्वत्राऽपि तेषां यशःप्रसरोऽटाट्यते ।। ४. मन्यते यो जगत्तत्त्वं स मुनि: परिकीर्तितः ।। (ज्ञानसारे मुन्यष्टकम् ।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org