________________
श्रीः - चतुस्त्रिंशदतिशयैरष्टमहाप्रातिहार्यैरन्यैरपि च तीर्थकृत्त्वसंसूचकैविशेषलक्ष्मभिस्तथा विशेषतस्तु कैवल्यलक्ष्म्या ते जगतोऽप्यतिशेरत इति सुविदिततरमेव परिशुद्धप्रज्ञावतां पण्डितप्रकाण्डानाम् ।
धर्मः - "दशविधं श्रमणधर्म स्वयमेव प्रकर्षपर्यन्तं परिपाल्याऽन्यानपि कोटिशो जीवान् तदासेवयन्तीति धर्मसाधनमपि तेषामितरेभ्यो वैशिष्ट्यावहम् ।
प्रयत्नः - कर्मकालुष्यविनाशाय रागादिशत्रुजयाय च निजसमग्रवीर्येण कृतः प्रबल: प्रयत्नस्तेषामद्वितीयत्वं ख्यापयत्यत्र जगति । __ तदेवं षण्णामप्येषामैश्वर्यादीनां विश्वस्मिन् विश्वे तेषामेवैकस्वामित्वं संसिद्धम् । ततश्च तेषां भगवत्ताऽपि सुतरां सिद्धा।
अथ च महावीरत्वं तु तेषां प्रलयकालस्य प्रभञ्जनेनाऽप्यप्रकम्प्यस्य सुमेरुपर्वतस्य जन्मतोऽल्पीयस्येव काले पादाङ्गुष्ठस्पर्शमात्रेण प्रवेपनेन, बाल्ये वयसि सुरपराभवपराक्रमेण, दीक्षोत्तरकालं जगतोऽप्यतुलबलशालित्वेऽपि महाभयङ्कराणामुपसर्गाणां मरणान्तकष्टानां च निर्भीकतया सुधीरतया क्षमादायितया च सहनेन जगद्विश्रुतमेव ।
ततो येषां कृपापीयूषसंवर्षणेन परमपुण्यप्रसादेनचाऽद्याऽपि जगति तदुपदिष्टमहिंसामूलकं जैनानुशासनं निराबाधं वरीवति सहस्रशो वाचंयमाश्चाऽधुनातनेऽपि विषमे कलिकाले तत्समाचरितं संदिष्टं च श्रामण्यमनुपालयितुं यथासामर्थ्यमुद्यमयन्ति तेभ्यः स्वनामधन्येभ्यः श्रमणभगवद्भ्यः श्रीमन्महावीरस्वामिभ्यः षडविंशतितम्या जन्मशताब्द्याः पुण्यावसरे कोटिशो प्रणंनमितयः । __ (सन्दर्भग्रन्थः हारिभद्रीयवृत्तिसमलङ्कृतं श्रीदशवैकालिकसूत्रम् ।) विषमस्थलटिप्पणी सावधयोगाः पापकर्माणि । परीषहाः
स्वयमुपस्थितानि कष्टानि, यथा क्षुत् पिपासा शैत्यं उष्णता इत्याद्या । एषां स्वरूपः नवतत्त्वादिग्रन्थेभ्यो
ज्ञेयम्। उपसर्गाः
देव-मनुज तिर्यग्भिः कृतं पीडनम् । ५. क्षमा, मृदुता, ऋजुता, सन्तोषः, तपः, संयमः, सत्यम्, शौचम्, अकिञ्चनता ब्रह्मचर्यं चेति दशधा यतिधर्मः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org