________________
एषणीयम् बेभीयते प्रतिपनीपद्यन्ते प्रतिच्छन्दायितुम् अटाट्यते प्रणंनमितिः
निर्दोषं, येषां उत्पादने-ग्रहणे च स्वनिमित्तं कस्याऽपि जीवस्य हिंसा न भवेत् तत् । भृशं बिभेति । पुनः पुनः प्रतिपद्यन्ते। प्रतिच्छन्दः प्रतिबिम्बं, तस्येवाऽऽचरितुम् । कुटिलं अटति। पुनः पुनः प्रणतिः।
एकादशगणधराणां नवैव गणा अभवन् ।
प्रथमानां सप्तगणधराणां भिन्ना भिन्ना वाचना अभवन् । अतः तेभ्यः सप्तगणाः प्रादुर्भूताः । अष्टमो अकम्पितो नवमश्चाचलभ्राता, एवं एतयोः द्वयोः गणधरयोः वाचना समानतया एको गणः समभवत् ।
तथा च दशमो मेतार्यः एकादशः प्रभासः एवं एतयोः द्वयोः गणधरयोः एकैव वाचनाभवत्, अतः एको गनः समभवन् ।
एवं एकादशानां गणधराणां नवगणाः अभवन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org