________________
यदि ग्रहीष्यति तर्हि अहमपि धन्यमेषु एको भविष्यामि । अहो ! कीदृशा धन्यास्ते ये जिनेश्वरं प्रतिलाभयन्ति ? अहं तु कदा तादृशो भविष्यामि?" इत्यादि भावयन् अनिमेषनयनाभ्यां प्रतीक्षते स्म स भिक्षाकालं यावत् । पश्चाच्च भिक्षाकाले व्यतीते - 'अद्याऽपि भगवान् उपोषित एव ज्ञायते' इति विचार्य स्वकार्ये युज्यते स्म ।
एवमेवाऽक्षुण्णमनाः स निरन्तरं भगवन्तं विज्ञपयति, स्वगृहं चाऽऽगत्य सर्वाः सामग्रीः सज्जीकृत्य भिक्षाकालपर्यन्तं प्रतीक्षते । एवं चतुर्मासी व्यतीता । स्वयं 'अद्य तु निश्चितं परमात्मा उपवासं पारयिष्यती' ति विचिन्त्य नित्यक्रमानुसारेण विज्ञप्तुं गतवान् । विज्ञप्य च झटित्येव स्वगृहं प्रतिन्यवर्तत । पूर्ववत् सर्वं सज्जीकृत्य गृहद्वारे स्थित्वा भक्तिभृतहृदयेन विचारयितुं लग्नः, यत् - 'त्रिलोकाधिपति परमात्मानमद्य दानं दत्वाऽहं धन्यः कृतपुण्यश्च भविष्यामि । मया लब्धमेतद् मनुष्यजन्माऽप्येतेनैव सफलं गणयिष्यते । अनेकभवपरम्परासु च निबिडाशुभकर्मभिर्बद्धोऽहमद्यैव मुक्तो भविष्यामि' । एवं भक्त्या भावनाया उत्कर्ष प्राप्तवान् सः।
इतश्च भगवान् महावीरोऽपि कार्योत्सर्गं पूर्णीकृत्य भिक्षार्थं निर्गतः । अभिनवश्रेष्ठीनो गृहं च स प्राप्तवान्। स च श्रेष्ठी स्ववैभवेन गर्वोन्मत्त आसीत् । आगतं भगवन्तमनुपलक्ष्यैव दास्यै अचीकथत् - 'एष कोऽपि भिक्षुक आगतोऽस्ति । यद् विद्यते तद्दीयताम्'। भावशून्या सा दास्यपि कुल्माषान् दत्तवती । तेन च भगवता मासचतुष्टयोपवासानां पारणकं कृतम् । तत्सार्धमेव महिमार्थं देवैः पञ्च दिव्यानि प्रकटीकृतानि । गगने दुन्दुभिनादः, अहोदानमहो दानमित्युद्घोषणा, सार्धद्वादशकोटीसुवर्णद्रव्यवर्षणम्, चेलोत्क्षेपः, गन्धोदकवृष्टिः इति पञ्च दिव्यानि तत्र समुद्भूतानि ।
तादृशं नावीन्यं दृष्ट्वा सर्वे नागरिकास्तत्र समुपस्थिताः । राजाऽपि सपरिकरस्तत्राऽऽगतः । तत्स्वरूपं दृष्ट्वाऽऽश्चर्यचकितोऽभूत् । नृपेण जनैश्च जिज्ञास्या पृष्टः श्रेष्ठी उवाच, यद् ‘मयाऽस्मै परमान्नं- क्षीरं भिक्षायां दत्तम्, तत्प्रभावेणाऽहमेतादृशं वैभवं लब्धवानस्मि' इति । तस्य तादृशैः कपटवचनैरनभिज्ञा जनास्तत्संश्रुत्य हर्षिताः सन्तः तं प्रशंसमाना निजनिजगृहं जग्मुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org