SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ इतश्च - शुभभावधारायां अधिकमधिकं आरोहन् स जीर्णश्रेष्ठी भावनायाः प्रकर्षस्य परां कोटिं यावत् प्राप्तवान् तावदेव तेन दुन्दुभिनादः श्रुतः । तत्सार्धमेव च तस्य भावधारा भग्ना, मनसि एव च - "किं भगवता पारणकं कृतम् ? हा ! हा ! कीदृशोऽहं मन्दभाग्यो येन विज्ञप्तोऽपि भगवान् महाङ्गणं न पावितवान् । अथवाऽलमेतेन । न हि निष्पुण्यकः कदाऽपि चिन्तामणिरत्नं प्राप्नोति । तथाऽहमपि निष्पुण्यकेषु प्रथमो येन भगवत्तुल्येन रत्नपात्रेण न लाभान्वितोऽभुवम्' - इत्यादि चिन्तयन् शोकमग्न इव बभूव । परमात्मा तु पारणकं कृत्वा पुनर्विहर्तुं प्रवृत्तः । ___अथ कियता कालेन च तस्यामेव वैशालीनगर्यां त्रयोविंशतीर्थकरस्य श्रीपार्श्वनाथभगवतः शिष्यः केवलज्ञानी आचार्यः समवसृतः । केवलज्ञानिमहात्मन आगमनं श्रुत्वा नगरजना नृपतिश्च आनन्दभरहृदया वन्दितुं तत्राऽऽगताः । केवलिनाऽपि धर्मदेशना प्रदत्ता । देशनां श्रुत्वा अमृतपानेनेव तुष्टा जना हस्तामलकवत् सर्वं प्रत्यक्षं पश्यन्तं केवलिभगवन्तं पप्रच्छुः, यद् – 'भगवन् ! अस्यां नगर्यां को धन्य आत्माऽस्ति ? केन च संसारो लघूकृतः ?' तदा जगाद केवली - 'अस्यां नगर्यां धन्यातिधन्योऽस्ति जीर्णश्रेष्ठी ।' तदाकर्ण्य राजा उवाच - भगवन् ! किमर्थं भवान् तमेव धन्यत्वेन ख्यापयति? किं तेन भगवतः पारणकं कारितमस्ति उत सार्धद्वादशकोटिसुवर्णस्य वृष्टिं तस्य गृहाङ्गणे पतिताऽस्ति, येन स धन्यः? केवली व्याजहार - "राजन् ! भावेन तु तेनैव पारणकं कारितं परमात्मनः । परमार्थतश्च वसुधारावृष्टिरपि तस्य गृहे एव पतिताऽस्ति । यतः स्वर्गस्य मोक्षसुखस्य चाऽपि स एव भाजनं जातोऽस्ति । यदि च क्षणमपि तेन दुन्दुभिनादः श्रुतो न स्यात् तर्हि भावधारायाः परां कोटिमारूढः स सर्वलोकालोकप्रकाशकं केवलज्ञानमपि प्राप्नुयादेव । अपरं च, भावशून्यवात् अभिनवश्रेष्ठिनस्तु सुवर्णद्रव्यमात्रस्य लाभो जातः, न कश्चिदन्यः । द्रव्यलाभस्तु अत्यन्तं स्थूलः । अतः भोः ! महाभागाः ! चारित्रं देवपूजा दानं च यदि भावशून्यानि तहि निष्फलान्येव गणयेयुः" इति । केवलिभगवतः सकाशात् जीर्णश्रेष्ठिनोऽनुमोदनं श्रुत्वा सर्वे नागरा भूपतिश्च प्रसन्नताभाजः ८० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy