SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ प्रसिद्धा कथा अप्रसिद्धा घटना (२) जीर्णश्रेष्ठी मुनिरत्नकीतिविजयः श्रमणो भगवान् महावीर: श्रामण्यं स्वीकृत्य वायुवन्निर्बन्धो मुक्तप्रतिबन्धश्च ग्रामानुग्राम विहरति स्म । दश वर्षाणि व्यतीतानि । एकादशमचतुर्मास्यर्थं भगवान् वैशालीनगरी प्राप्तवान् । त्रसादीजीवानामुपद्रवै रहिते स्त्री-पशु-नपुंसकादीनां संसर्गमुक्ते निर्दोषस्थले मासचतुष्टयोपवासान् अंगीकृत्य प्रतिमाध्यानेन अवातिष्ठत् । ___ तस्यामेव नगर्यामनेकैः सद्गुणैर्मण्डितो जीर्णश्रेष्ठी नाम श्रावको वसति स्म । अन्यश्च अभिनवाभिधोऽपि श्रेष्ठी तत्रैव वसति स्म । ___कार्यवशादेकदा जीर्णश्रेष्ठी नगर्या बहिरगच्छत् । तत्र च काञ्चनवर्णशरीरं सर्वैरुत्तमलक्षणैर्युक्तं भगवन्तं महावीरं कार्योत्सर्गपूर्वकं स्थितं स दृष्टवान् । भगवन्तमुपलक्ष्य तस्य मन आनन्दोदधौ निमग्नमिवाऽभूत् । हर्षवशात् रोमाञ्चितः स परमात्मानं वन्दितवान् । मनसि च – 'इदानीं भिक्षाकालं प्रवर्तते । तथाऽपि भगवान् तु कायोत्सर्गेणैव स्थितोऽस्ति, अतः स उपोषितोऽद्य इति ज्ञायते । यदि च श्वो मम गृहे पारणार्थेमेष अनुग्रहं कुर्यात् तर्हि अहं धन्यभाग्यो भवेयम्' - इति चिन्तयति । भिक्षाकाले व्यतीते भगवत उपवासं निश्चित्य स प्रत्यागतवान् स्वगृहम् । अपरस्मिन् दिने भिक्षाकालं प्राप्य तत्र पारणार्थं भगवन्तं विज्ञपयति स्म । कार्योत्सर्गेणैव स्थितं परमात्मानं दृष्ट्वा – 'अधुना कायोत्सर्ग पारयित्वा भगवान् भिक्षार्थं मम गृहमलंकरिष्यति' इति भावयित्वा भगवतश्च प्रतिवचनमप्रतीक्षमाण एव त्वरितं स्वगृमागत्य सर्वा अपि भिक्षायोग्याः सामग्री: सज्जीकृत्य गृहस्याऽग्रद्वारि एव - "अधुनैव भगवान् भिक्षार्थं सञ्चरिष्यति । मया विज्ञप्तो भगवान्, अतोऽनेनैव मार्गेण मम गृहे आगमिष्यति । उग्रं तपश्चरन् स मम सकाशात् स्वल्पमपि ७८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy