SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ पत्रम् सहृदय - मित्रमुनिवरं प्रति अनुवन्दनम् ! किं कुशली भवान् ? देव - गुरु- धर्मप्रसादतो वयमत्र सर्वे ससातं वर्तामहे । विहारयात्राऽपि सुखपूर्वकं प्रवर्तमानाऽस्ति । भगवता महावीरेण प्ररूपितानां आचाराणां यदा विचारः क्रियते तदा तु शिर: सबहुमानं तस्य भगवतः चरणयोः नुतिं विधत्ते । कीदृशा धन्याः स्मो वयं यदीदृशः आचारधर्मः प्राप्तोऽस्माभिः इत्येव विचारः प्रवर्तते सततम् । संयमजीवनस्य आराधकाः स्मो वयं सर्वे । मुनिरत्नकीर्तिविजयः चारित्रस्य आराधकानां अस्माकं कृते एतद् वर्ष चिन्तनस्य अवसररूपमस्ति । नाऽत्र कर्तव्या भगवतो महावीरस्य साधनया सहाऽस्माकं साधनयाः तुलना । भगवत उपदेशेनैव सार्द्धं केवलमस्माकं आचारः परीक्षणीयः । भगवतो महावीरस्य शासनं केवलं क्रियाप्रधानं यथा नास्ति तथा केवलं ज्ञानप्रधानमपि तन्नास्ति । उभयोरपि तत्र प्राधान्यं वर्तते । उक्तमपि "ज्ञानक्रियाभ्यां मोक्षः" इति । ज्ञानयोगो यदा साधकं क्रियायोगे प्रवर्तयेत् - क्रियायोगश्च तस्य साधकस्य ज्ञानयोगं अधिकतरं निर्मलं यदि कुर्यात् तर्ह्येव स मोक्षमार्गो भवति । ज्ञानरहिता क्रिया कायक्लेशस्वरूपमादधाति, क्रियाशून्यं च ज्ञानं दम्भाहङ्कारजाड्यदिकं प्रति नयति । ज्ञानं यदि प्रकाशः तर्हि क्रिया तु मार्गः । प्रकाशं विना मार्गः अकिञ्चित्करः, मार्गं विना च प्रकाशोऽपि तादृश एव । अन्यदृष्ट्या तु, ज्ञानं यदि मार्गः तर्हि क्रिया तु गतिरूपा अस्ति । सन्मार्गशून्या एकाकिनी गतिर्यथा लक्ष्यं न प्रापयति तथा गतिविहिन एकाकिनः सन्मार्गोऽपि लक्ष्यं न प्रापयति । Jain Education International 1 ९५ For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy