SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगादः चिन्तनधारा मुनिरत्नकीर्तिविजयः एतद्वर्षं भगवतो महावीरस्य स्मृतेः पुण्यावसरस्वरूपं वर्षमस्ति । तस्य भगवतः षड्विशतितमजन्मशतीवर्षमेतद् वर्तते । सामान्यतस्तु वर्तमानाया विश्वस्य स्थितेः सूक्ष्म निरीक्षणं यदा यदा क्रियते तदा तदा तेन भगवता प्ररूपिताः सिद्धान्ताः, तत्प्ररूपणे च तस्य पारगामिनी दृष्टिः प्रतिक्षणं स्मृतिगोचरा भवत्येव किन्तु, अवसरं प्राप्य विशेषेण तत् स्मृतिमुत्तेजयति । यद्यपि वर्तमानायाः स्थितेः दुर्बलत्वं न्यूनत्वं वा सम्मुखीकृत्य पुरस्कृत्य भगवतो महावीरस्य प्राबल्यं सर्वोपरित्वं वा ख्यापयितुं नास्त्यत्र कोऽप्याशयः । 'अन्यस्य कस्याऽपि दौर्बल्यमपरस्य प्राबल्ये मान' मिति भौतिकजगति सत्यं सदपि आध्यात्मिकजगति तस्य मूल्यं किञ्चिदपि नास्त्येव । आध्यात्मिकक्षेत्रे, एकस्य पतनेनाऽन्यस्य उन्नतिर्न कदापि मीयते गण्यते वा । यस्य कस्याऽपि उन्नतिः तस्य स्वस्याऽधीनत्वेनैव प्रवर्तते । अन्येषां ग्रह-नक्षत्र- तारकादीनां अल्पतेजस्कत्वं न कदापि सूर्यस्य प्रखरतेजस्वितायां कारणं भवितुमर्हति । सूर्यस्तु स्वयमेव तेजस्वी तेजःपुञ्जो वा वर्तते । सन्मार्गोऽपि नाऽसन्मार्गस्याऽपेक्षया सत्यं किन्तु स्वयमेव स तत्स्वरूपः । एवं भवति कदाचित् यत् असन्मार्गप्रवृत्यनन्तरं सत्यस्य - सन्मार्गस्य भानं जायेत । एवमेव भगवान् महावीरः तस्य सिद्धान्ताश्च स्वयमेव महान्तः त्रिकालाबाधितसत्यस्वरूपाश्च सन्ति । केवलं पूर्वग्रहशून्या दृष्टिरेव तत्सत्यं ग्रहीतुं समर्था भवति । हेल्वेटीयस् नाम्ना लेखकेन लिखितमस्ति यद् – 'सत्यं त्वेकमुल्मुकमस्ति, यत् मिहिकामविकीर्याऽपि तन्मध्यादेव प्रकाशते' इति । अत्र तु भगवतो महावीरस्य साधनातः पुरुषार्थाच्च प्राप्यमाणं जीवनस्य सत्यं निर्देष्टुं प्रयत्नमात्रं कृतमस्ति । सङ्घर्ष इति जीवनतत्त्वस्याऽपरं नाम पर्यायो वाऽस्ति । सुखायाऽविरतं सङ्घर्ष इति मानवजीवनस्य संक्षिप्तोऽपि संपूर्ण इतिहासोऽस्ति । ३४ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy