________________
प्रत्येकं मनुष्यस्य समक्षं द्वौ विकल्पौ वर्तेते - एको मनसो ध्वनिः, अपरश्चाऽऽत्मनो ध्वनिः । सर्वेषु मनुष्येषु महावीरत्वस्य सम्भावना वर्तत एव । केवलं स कं पुरस्करोति - मनसो ध्वनिमात्मनो ध्वनि वा ? इत्यत्राऽस्ति तस्याऽऽधारः । समग्रस्याऽपि संसारस्य पुरुषार्थोऽनयोर्द्वयोः विभागयोरेव विभक्तोऽस्ति । एकस्मिन् विभागे जगत् समस्तमपि वर्तते, अपरस्मिन् च भगवान् महावीरः । सुखमेव सर्वेषां लक्ष्यरूपेण वर्तते-जगतोऽपि महावीरस्याऽपि च । जगत् मनसो ध्वनिमनुसरति तत्रैव च सुखं पश्यति - अनुमाति, भगवान् महावीरस्तु आत्मनो ध्वनेरनुसरणे सुखं पश्यति ।
मनसो ध्वनि : प्रेयोमार्ग - साधनैश्च सुखप्राप्तेर्मार्गोऽस्ति । आत्मनश्च ध्वनिस्तु श्रेयोमार्गःसाधनयाऽन्तःस्थितस्य सुखस्य आविष्करणस्य मार्गः । प्रथमपक्षे सुवर्णं रञ्जयित्वा तत् तेजस्वि कर्तुं प्रवृत्तिरस्ति, द्वितीयपक्षे तु सुवर्णमग्नौ तापयित्वा तदन्तःस्थं तेजस्वित्वं प्रकटयितुं प्रयासोऽस्ति । बाह्यादानीतं तेजस्वित्वं क्षणिकमल्पजीवि च भवति किन्तूद्घटितं आन्तरिकं तेजस्वित्वं तु शाश्वतं चिरंजीवि च भवति ।
"प्रेयो वर्तमानक्षणमेव स्वकीयो विषयः करोति परं श्रेयस्तु अनन्तभविष्यत्कालव्यापि वर्तते" - सदातनमेतत् सत्यम् । सत्येनैतेन मनुष्यो न सर्वथाऽनभिज्ञः तत्त्वनुभवसिद्धमेव। किन्तु तुच्छस्तस्य मोह एतत्सत्यं प्रति दुर्लक्ष्ये कारणत्वेन प्रवर्तते । सत्यस्याऽनभिज्ञत्वं त्वेकं वस्तु किन्तु तत्प्रति दुर्लक्ष्यं त्वन्यदेव । 'सत्यं ज्ञायत एव न' इति तु सर्वथाऽशक्यं मनुष्याणाम् । प्रत्येकं परिस्थितेः तत्परिणामगतं च सत्यं तस्याऽन्तरे प्रकाशितं भवत्येव नूनम् । किन्तु तस्य मोहः तं प्रकाशं - सदसद्विवेकं रुणद्धि, तस्य ज्ञानमाच्छादयति, तस्य च दीर्घदृष्टिं कुण्ठयति । मोहात् सत्यं न ज्ञायते इति कथनं यद्यपि अर्धसत्यं, तथापि मोहात् सत्यं न स्वीकर्तुं शक्यते इति कथनं तु सर्वथा समुचितम् । विचाराणां ज्ञानस्याऽनुभवस्य वा क्षेत्रपर्यन्तमागतोऽपि सत्यस्य प्रकाशः समुद्रतटेन आस्फाल्य निवर्तमानानि तरङ्गाणि इव, मोहस्य दुर्भेद्यया भित्या आस्फाल्य पुनविलीयते ।।
'मोहो दुर्भदः' इति सत्यं, किन्तु न सोऽभेद्यः, भेद्य एव सः । यो भिनत्ति स महावीरो जायते । भगवतो महावीरस्य साधनाऽप्येतदेव शिक्षयति यत् - 'मनुष्यः अनन्तशक्तेनिधिरस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org