SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ केवलं स क्षणिकत्वस्य मोहमपसार्य शाश्वततत्त्वमभिलषेत् - इति अनिवार्यम् । इच्छाशक्तेः प्राबल्यमेव मनुष्यं महावीरं जनयति । वर्तत एव प्रत्येकं मनुष्येषु इच्छाशक्तिः, केवलं तस्या मार्गपरिवर्तनं दिक्परिवर्तनं वाऽऽवश्यकमत्र । कस्यामप्येकस्यां दिशि निष्फलत्वं प्राप्तो मनुष्यो झटित्येव अन्यस्यां दिशि प्रयतत एव , तर्हि, नित्यकार्येषु आचीर्यमाणामेनां प्रक्रियां जीवनतत्त्वेन सह किमर्थं स न सङ्कलयति' । भगवतो महावीरस्य सन्देशोऽपि एतावानेव यद् ''भोः! महाभाग ! त्वं दिशं परावर्तस्व । आदृतः पुरुषार्थो भवता अनन्तकालात् प्रेयोमार्गे किन्तु सर्व एव स निष्फलतां गतः, अधुनाऽपि निष्फलो जायते, इतः परमपि स निष्फलत्वमेव अनुवय॑ते । एकशोऽपि यदि नाम त्वं तव मोहमपाकृत्य श्रेयोमार्गेण पुरुषार्थं करिष्यसि तर्हि सुखं तु चरणयोः विलुठिष्यति । यच्च सुखं त्वं बाह्यात् साधनैश्च प्राप्तुं प्रयतसे यदर्थं च परितप्यसि तत्तु त्वदन्त एव विलसति, तदेव च वास्तविकं सुखमपि। प्रेयोमार्गेण साधनैश्च प्राप्यमाणं सुखं तु न वस्तुतः सुखं किन्तु सुखस्याऽऽश्वासनमेव तत् । न शोभते तव मृगमरीचिकासु जलस्याऽऽश्वासनम् । यतो विद्यते त्वयि शक्तिर्ज्ञानं च । तदाश्वासनं भवतु मृगाणां येषु शक्तेमा॑नस्य वाऽभावो वर्तते । तव मार्गोऽस्ति श्रेयसो मार्गः । तत्र कृत एव तव पुरुषार्थो निश्चयेन सफलत्वं प्राप्स्यति । तद्द्वारा चोद्घटितं सुखमेव वास्तिवं सुखम् इति' । भगवान् महावीरो नाऽस्माकं क्षति दर्शयति यत् – 'युष्माभिः क्षतिः कृता, कुर्वन्ति च यूयमद्याऽपी'ति । स जानात्येव यत् - क्षतिस्तु मयाऽपि कृता एवाऽसीत् । अपरं च - 'क्षेतेरेव शिक्षणं प्राप्यते जनैः' केवलं क्षतिं क्षतित्वेन स स्वीकर्तुं शक्तो न वा इत्यत्राऽस्ति तस्याऽऽधारः । अतः क्षतौ प्रहरणं नाऽऽसीत् महावीरस्य तत्साधनाया वा लक्ष्यम् । भगवान् तु स्वकीयया साधनया मानवस्य अचिन्त्यां शक्तिं प्रति ध्यानमाकर्षयति। 'जोन लोक' इत्यनेन लेखकेन कथितं यत् - "जनाय तस्य क्षति प्रति अंगुलिनिर्देशकरणं खलु सरलं शक्यं च ; किन्तु क्षतिमुक्तसत्यं प्रति तस्य नयनं तुं अन्यदेव , अर्थात् विरलं अशक्यं च।" भगवान् महावीरोऽपि स्वकीयया साधनया सत्यं सन्मार्गं च प्रकाश्य मानवं तत्प्रति जागरयति । समस्तमपि जगत् यां प्राप्तुं भोक्तुं च नक्तन्दिवं अविरतं प्रयतते तादृशी समग्राऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy