________________
पवित्रात्मन्येव तिष्ठति । अहिंसाया उद्गमस्थानमभयमस्ति । भगवत्प्रवचनस्य मूलमन्त्रमप्यभयमस्ति । पवित्रताया मुख्यस्वरूपमहिंसा अस्ति, ततः यत्र भयं तत्र अहिंसाया अभावः । हिंसा एव असमाधिः । अहिंसा एव समाधिरिति ज्ञात्वा अहिंसाधर्म उपदिष्टः । भगवता किमपि कृतं तद् अहिंसार्थं, किमपि न कृतं तदपि अहिंसार्थम् । भगवत आचारः अहिंसकप्ररूपक आसीत्, विचारोऽनेकान्तदृष्टिगोचर आसीत्, भाषा स्याद्वादनिरूपिका आसीत् । भगवता प्ररूपितं "आत्मवत् सर्वभूतान् पश्य" । आत्मरमणता एव अहिंसा अस्ति, जिनागमानुसारेण सैव ध्यानमस्ति । केवलं चित्तवृत्तिनिरोध एव ध्यानं नास्ति, दैहिकवृत्तिनिरोधोऽपि ध्यानमस्ति । भगवच्चित्तविशुद्धिरहिंसायाः स्वरूपे प्रसिद्धा अस्ति । आत्मनिश्चय एव सम्यग्दर्शनमस्ति, आत्मज्ञानमेव सम्यग्ज्ञानमस्ति, आत्मरमणता एव सम्यक्चारित्रमस्ति, तद्भिन्नो न कोऽपि योगो दृश्यते । अहिंसासाधनासंलग्नीभूतः भगवान् ललाप 'यद् मौनमस्ति तत् सत्यमस्ति, यत् सत्यमस्ति तदभाषणमस्ति । भगवता मौनमप्याचरितं अमौनमप्यासेवितम् । छाद्मस्थिकपर्याये अभाषणं सेवितं, केवलज्ञानप्राप्त्यनन्तरं अमौनं सेवितम् । स्वात्मनि परिपूर्णाहिंसाप्रकटनार्थं मौनमाचरितं, प्रतिजनमहिंसाधर्मस्वरूपं ज्ञापयितुममौनमासेवितम् ।
सार्द्धादशवर्षपर्यन्तं सुरासुरतिर्यगादिकृतसर्वोपसर्गान् समभावेन सहमानः सहमानः ग्रामानुग्रामं विहरन् विहरन् अन्यत्वादिद्वादशभावनास्वरूपं चिंतयन् चिंतयन् स्वशरीरमपि व्युत्सृज्य भगवान् बभाषे 'इदं गात्रं न मम, अहं मूर्तेर्भिन्नः चैतन्यस्वरूपं शुद्धबुद्धनिरञ्जनात्मा अस्मि, शुद्धचैतन्यं मम स्वरूपमस्ति' । यो विग्रहासक्तिः त्यजति स एव चैतन्ये स्थिरीभवति । स्वचैतन्ये स्थिरीभवनप्रक्रिया समता अस्ति ।
उक्तं च न्यायविशारदमहोपाध्याययशोविजयेन अध्यात्मसारप्रकरणे समताधिकारे दूरे स्वर्गसुखं मुक्ति-पदवी सा दवीयसी । मनः संनिहितं दृष्टं स्पष्टं तु समतासुखम् ।। यत्र सर्वोपाधयः समाप्यन्ते तत्रैव भगवद्पमुदेति ।
३३ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org