SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ अस्ति, अपूर्णरूपमात्मा अस्ति । धर्म एव सत्यमस्ति, यत् सत्यमस्ति तदेकमेव विद्यते । धर्मात्मानौ द्वौ भिन्नौ न स्तः । य आत्मा अस्ति स एव धर्मोऽस्ति, यो धर्मोऽस्ति स एव आत्मा अस्ति । भगवद्धर्म आत्मधर्मोऽस्ति, आत्मा न धर्मोद्भिन्नः, धर्मो न आत्मनो भिन्नः । आत्मबहिधर्मो न विद्यते। भगवता सत्यं शोद्धं अनेकान्तवादस्य वा स्याद्वादस्य सिद्धान्तोऽनुशिष्टः । तत्र सत्यधर्मस्य स्वरूपं यथा ख्यातं तथा केनापि न प्रथितम् । ततः स सिद्धान्तः सर्वत्र समादरं प्राप । तत्र भगवान् जगाद 'भिन्नभिन्नजातिवर्गसंप्रदायेषु सत्यं न बध्नीत । असत्यं सत्यं कर्तुमनसो जनाः स्तोकाःसन्ति, सत्यं असत्यं कर्तुमनसो जना बहवः सन्ति । एकान्तदृष्टितो दृष्टं सत्यं न सत्यं किन्तु असत्यं, एकान्तभाषाकथितं सत्यमपि न सत्यं किन्तु असत्यम् । प्रत्येकं अस्तित्वस्वभावात्मकवस्तु सत् अस्ति । यत् सत् अस्ति तद् अनन्तधर्ममयमस्ति । अनन्तदृष्टितः सत्सत्ताया यथार्थज्ञानं भवति, ततः भगवता अनेकान्तदृष्टिः स्थापिता । अनेकान्तदृष्टितः दृष्टस्य सत्यस्य प्रतिपादनं स्याद्वादभाषायां कृतम् । प्रत्येकं द्रव्यं नित्यमस्ति अनित्यमपि अस्ति । स्वरूपाविच्युतिदृष्टितः नित्यमस्ति, स्वपरिवर्तनदृष्टितः अनित्यमस्ति । प्रत्येकं द्रव्यं नित्यमस्ति, तत्प्रकारकज्ञानवान् आत्मा जीवनमरणयोः समताभावमङ्गीकरोति । प्रत्येकं द्रव्यमनित्यमस्ति, तत्प्रकारकज्ञानवान् आत्मा संयोगवियोगयोः समत्वभावं स्वीकरोति । प्रत्येकं द्रव्यं सदस्ति असदपि अस्ति । स्वास्तित्वदृष्टितः सदस्ति, नास्तित्वदृष्टितः असदपि अस्ति । प्रत्येकं द्रव्यं सदस्ति. तत्प्रकारकज्ञानवान आत्मा परकीयसत्तायाः स्वीकारं करोति. प्रत्येकं द्रव्यं असदस्ति तत्प्रकारकज्ञानवान् आत्मा पारतन्त्र्यं कर्तु नेच्छति । प्रत्येकं द्रव्यं वाच्यमपि अस्ति, अवाच्यमपि अस्ति । एकस्मिन् क्षणे एको धर्मो वाच्योऽस्ति, परस्मिन् क्षणे अवाच्योऽप्यस्ति । प्रत्येकं द्रव्यं वाच्यमस्ति तत्प्रकारकज्ञानवान् आत्मा शाब्दिकदृष्टितः सत्यं सर्वथा अग्राह्यमस्ति इति न मन्यते, प्रत्येकं द्रव्यं अवाच्यमप्यस्ति तत्प्रकारकज्ञानवान् आत्मा आग्रही न भवति । अनेन प्रकारेण यो नैकदृष्टितः सत्यं पश्यति स एव साम्ययोगी भवति । अनेकान्तदृष्टितः सत्यधर्मप्रतिपादनात् महावीरस्थापितधर्मो विश्वधर्मो बभूव । महावीरस्थापितधर्मः सकलजगज्जन्तुहितार्थमासीत् । अभयभावितान्तःकरणवान् आत्मा एव सत्यं प्राप्नोति । भगवता कथितो धर्मः . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy