SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कर्ममर्मभेदकृत् तपः कृत्वा तपसा सत्यस्य साक्षात्कारः कृतः । सत्यविहीने न कोऽपि श्रद्धां करोति । भगवता सत्यधर्मायाऽधिकतमं महत्त्वं प्रदत्तम् । सत्यस्य जिज्ञासा तस्य जीवने प्रकृष्टा प्रज्वलिता आसीत् । भगवतो जीवने सत्यमेव परमतत्त्वमासीत् । ततः 'महावीर एव सत्यधर्मः, सत्यधर्म एव महावीर' इति लोकोक्तिः प्रथिता जाता । महावीरस्य महावीरत्वं सत्यधर्मात् प्रकटीभूतम् । सत्यधर्मशोधने सकलशक्तिः सद्व्ययीकृता। लब्धसत्यवान् सर्वं प्रापति, अलब्धसत्यवान् किमपि न प्राप्नोति । सत्यसाक्षात्कारात्मा एव सत्यस्वरूपमुपदेष्टुमर्हो भवति । सत्यसाक्षात्कार एव आत्मसाक्षात्कारः आत्मसाक्षात्कार एव सत्यसाक्षात्कारः । आत्मसाक्षात्कारस्य प्रवर्तको भगवान् महावीर आसीत् । भगवान् महावीरः सत्यस्य अनेकस्वरूपद्रष्टा आसीत् । भगवन्निरुपितं सर्वं सत्यमस्माभिः न ज्ञातुं शक्यम् । भगवन्मते अहिंसासत्ययोः कोऽपि द्वैतभावो न विद्यते । परिपूर्णात्मावस्था अहिंसा अस्ति । सत्यं न अहिंसाभिन्नम् । यत्र सत्यमस्ति तत्र अहिंसा अस्त्येव । सत्यमहिंसायाः परिसरे एव प्रकटति । अहिंसा सह सत्येनैव चलति । यत्र अहिंसा तत्र सत्यं, यत्र हिंसा तत्र सत्याऽभावः । यत्र सर्वज्ञप्रकथितजैनधर्म : तत्रैव अहिंसा, यत्र अहिंसा तत्रैव सर्वज्ञभाषितजैनधर्मः इति विधातुं न अतिशयोक्तिः । सत्यस्य नैकप्रकारा विद्यन्ते । यद वीतरागपरमात्मभिः प्ररूपितमस्ति तदेव सत्यमस्ति 'तमेव सच्चं णिस्संकं जं जिणेहिं पवेइयं' सत्यमखण्डमस्ति अविभाज्यमस्ति सहजमस्ति । द्वैतवादिमते आत्मा अपि सत्यमस्ति, अनात्माऽपि सत्यमस्ति । अद्वैतवादिमते आत्मा एव सत्यमस्ति, शेषं मिथ्या अस्ति - 'ब्रह्म सत्यं जगन्मिथ्या' । आत्मा एव सर्वज्ञस्य ज्ञानमस्ति दर्शनमस्ति चारित्रमस्ति । परमात्मा परिपूर्णसत्यमस्ति । आत्मनः चरमविकासः परमात्मा अस्ति । यावत्कालपर्यन्तमात्मा स्वान्तिमलक्ष्यं न सानोति तावत्कालपर्यन्तमपूर्णोऽस्ति, यदा चरमलक्ष्यं साध्यति तदा परिपूर्णो भवति । आत्मा परमात्मनो बीजमस्ति, परमात्मा आत्मनः पूर्णविकासोऽस्ति । आत्मपरमात्मानौ द्वौ एकतत्त्वस्य भिन्नौ रूपौ स्तः । किन्तु परमात्मा आत्मनः उत्तरकालीनरूपतो न भिन्नोऽस्ति, परमात्मनः पूर्वकालीनरूपत आत्मनः पृथग् अस्तित्वं नास्ति । एकत्वदृष्टित आत्मा एव परमात्मा अस्ति, परमात्मा एव आत्मा अस्ति । स्थितिभेददृष्टितः चैतन्यस्य परिपूर्णरूपं परमात्मा २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy