SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ आख्यादः सच्चं खु भयवं - मुनिविमलकीर्तिविजयः। अस्मिन् जंबुद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामे दुष्षमसुषमानामचतुर्थारकबहुव्यतिक्रान्ते भगवान् महावीरः आषाढशुक्लपक्षस्य षष्ठीरात्रौ पुष्पोत्तरनामकविमानाच्च्युत्वा देवानन्दायाः कुक्षौ गर्भतया उत्पन्न: । तदैव सिद्धार्थक्षत्रियस्य त्रिशलायाः क्षत्रियाण्याः कुक्षौ पुत्रीरूपगर्भो जात: । तदा शक्रेन्द्राज्ञया हरिणैगमेषिनामकदेवेन त्रिशलाकुक्षिजातपुत्रीरूपगर्भो देवानन्दायाः कुक्षौ अमुच्यत । देवानन्दाकुक्षिजातगर्भः त्रिशलायाः कुक्षौ अमुच्यत । चैत्रमासस्य शुक्लपक्षस्य त्रयोदशीदिवसे सारोग्यं दारकं सुषुवे । सिद्धार्थराजा कुलमर्यादास्वरूपं दशदिवसपर्यन्तं महोत्सवं कृत्वा कुमारः वर्द्धमानः इति तस्य नामाभिधानं करोति स्म । बाल्यावस्थायां व्यतीतायां भोगसमर्थः कुमारः वर्द्धमानः सह यशोदया विवहते स्म । अष्टाविंशतिवर्षातिक्रमे भगवतो मातापितरौ दिवंगतौ । पश्चात् ज्येष्ठभ्रातृनन्दिवर्धनाज्ञया भगवान् वर्षद्वयं गृहे तिष्ठति स्म । श्रमणो भगवान् महावीरोऽनुत्तरज्ञानदर्शनेन स्वस्य दीक्षाकालं विलोक्य एकवर्षपर्यन्तं दानं ददाति स्म । पश्चात् उत्तराफाल्गुन्यां चन्द्रयोगे सति भगवान् स्वयमेव पञ्चमौष्टिकं लोचं कृत्वा साधुतां प्रतिपन्नः । समयकालचक्रमनाद्यनन्तमस्ति । तत्प्रतिक्षणं स्वेन सह किञ्चिदानयति, किञ्चिन्नयति । य आगच्छति स किञ्चित् कृत्वैव गच्छति, किञ्चिद् दत्त्वैव गच्छति पश्चात् जगत् तस्य मूल्यमङ्कयति । बहुश्रुतपूर्वधरपुरुषाणां सच्चरित्रैः सद्विचारै: इतिहासोऽविस्मरणीयो भवति । योगजनितविभूतयो योगिपुरुषेषु, तपोजनितलब्धयः तपस्विमहात्मसु, ध्यानजनितशक्तयो ध्यानिषु, क्रियाजनितरुचयः क्रियावत्सु, सद्धर्मदेशनाजनितवैराग्यभावो मोक्षाभिलाषुकेषु दरीदृश्यन्ते । प्रतिजीवं स्वात्मानुभूतिं विना आत्मौपम्यभावेन विना स्वतादात्म्यभावं विना कोऽपि जीवो धार्मिको न भवति । सार्द्धद्वादशवर्षपर्यन्तं भगवता महावीरेण कठिनं तपः तपितम् । उक्तंच देहे दुक्खं महाफलम्। भगवतो महावीरस्वामिनो जीवनं साधनामयमासीत् । चिरकालपर्यन्तं Jain Education International ३० For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy