________________
प्रास्ताविकम् ॥ भगवतो महावीरस्य षड्विंशतितमस्य जन्मशतीवर्षस्य पुण्यावसरमेनं सम्प्राप्य इमां शाखां भगवन्महावीरस्वामि-विशेषाङ्कत्वेन प्रकाशयामः। __अस्मिन् प्रस्तावे भगवतो महावीरस्य सर्वजनहिताय सर्वजनसुखाय च प्ररूपितानां सिद्धान्तानां सम्यगाचरणेन निःशेषमपि जगत् अहिंसायाः सत्यस्य च वर्त्मनः पथिकं भूयादित्याशास्महे।
नन्दनवनकल्पतरोरियं पञ्चमी शाखाऽस्ति । संस्कृतभाषाया अभ्यासार्थं प्रसारार्थं च विभिन्नप्रान्तेभ्योऽनेकाः पत्रिकाः प्रसिद्धयन्त्येव । अयमपि नन्दनवनकल्पतरुः स्वाध्यायेन सहैव पूर्वोक्तमुद्देशमप्युपष्टम्भयति।।
संस्कृतभाषायाः प्रचारार्थं प्रसारार्थं वा प्रभूते पुरुषार्थे सत्यपि अस्माकं देशे तस्यः कियती उपेक्षा अवज्ञा च क्रियते इत्यस्य व्यथा एकेन बहुश्रुतविदुषा श्रीअभिराजराजेन्द्र मिश्र-महोदयेन स्वकीयपत्रेण प्रकटिताऽस्ति । 'वाचकानां प्रतिभावः' इत्यत्र मुद्रितमेतत्पत्रं पठितुं साग्रहं विज्ञपयामः ।
किञ्च – भूकम्पस्य कारणेनेयं शाखा विलम्बेन प्रकाशिता । वि. सं २०५७
कीर्तित्रयी चैत्रशुक्ला त्रयोदशी श्रीमहावीरजन्मकल्याणकदिवसम् गोधरानगरम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org