________________
मर्म - नर्म
धम्ऽऽऽ धम्ऽऽऽ धम्ऽऽऽ सशब्दं किञ्चित् पतितं निःश्रेण्याम् । महानसात् गृहिणी उवाच - किं भूतम् ? । पतिः - न.... न किमपि । केवलं वस्त्राणि पतितानि । गृहिणी - केवलं वस्त्राणां पतनेन कथमेतावान् महान् शब्दो जायेत ? पतिः - अहमप्यासं तत्र वस्त्राणां मध्ये .... अतः ... !
-मुनिरत्नकीर्तिविजय :
(अपराधिनमुद्दिश्य) कथय, तवाऽन्तिमेच्छा ?
( जाम्बवभक्षणस्य स्पृहाऽस्ति । )
अधिवक्ता
अपराधी
इदानीं वर्षाकाले न प्राप्यते जम्बूः।
तर्हि नास्ति ममाऽपि त्वरा ।
अधिवक्ता
अपराधी
-मुनिधर्मकीर्तिविजयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org