SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ मर्म - नर्म पत्युः असदृशवर्तनेन पत्नी त्रस्ता आसीत् । सायंकाले नित्यं क्षेत्रकार्यात् निवृत्य गृहमागत्य पतिः साक्रोशं 'पानीयमुष्णं । कृतं न वा? खाद्यसामग्री सज्जीकृता न वा?' - इत्यादि व्यवहरति स्म । एकदा तस्या माता तद्गृहमागता । सा सर्वमपि जनन्यै उक्तवती । तया तस्याः कर्णे किमपि कथितं येन सा तुष्टा जाता। अथ च- सायंकाले यथाक्रमं तस्याः पतिः गृहमागतवान् । सानोशं च - 'स्नानार्थं जलमुष्णं करोषि नवा ? अन्यथा .....!' इति द्वित्रिवारमुक्तवान् । तदा पत्नी अपि उच्चैरुवाच - अन्यथा ? अन्यथा किं करिष्यसि ? पति : (शान्त्या) - शीतेनैव जलेन स्नास्यामि । कनिष्ठः पुत्रः (मातरं प्रति) - मातर् ! किमर्थं भगिनी रोदिति ? माता - तस्या विवाहः सञ्जायते, अतः । पुत्र : - तर्हि तस्याः पतिः किमर्थं न रोदिति ? तस्याऽपि किं विवाहो न सञ्जायते? माता - वत्स ! अद्य भगिनी रोदिति किन्तु श्वस्तः स एव नित्यं रोत्स्यति । -मुनिरत्नकीर्तिविजय : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy