SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ किञ्च-सामर्थ्यमचिन्त्यं चित्तस्य । अशक्यमस्मादृशैः जीवैः तज्ज्ञातुम् । ततः प्रतिक्षणं सावधानेन स्थातव्यम् । मित्र ! त्वं त्वतीव क्रिकेटरसिकोऽसि, ततस्त्वया दृष्टैव भवेत् क्रिकेटक्रीडा। भवेयुः कीदृशा अवधानान्विताः क्रिकेटक्रीडकाः। सर्वसमयं सावधानाःस्युः । प्रतिगेन्दुकं खेलयितुं कियदेकाग्यं ते रचयेरन् । गेन्दुको दक्षिणदिशः (on ofside) आगमिष्यति, वामदिशः (on the legside) आगमिष्यति, उपरिष्टात् (Bouncer) आगमिष्यति अथवा पुरस्तात् (Fultoss, Yorker) आगमिष्यतीति ज्ञातुं क्रीडका अतीव सावधानं भवन्ति; यतो यदि किञ्चिदप्यनवहितं कृतं स्यात्तर्हि किक्रेटक्षेत्राबहिरेव तेन गन्तव्यं स्यात् । तथैव जीवेनाऽपि प्रतिक्षणं अवधानयुक्ते न स्थातव्यम् । प्रतिक्षणमस्माकं समक्षमपि नै कानि दुष्टनिमित्तान्यागच्छन्ति । कदाचिद्रागस्य मोहस्य द्वेषस्य कषायस्य च निमित्तानि, एवमनेकानि दुष्टान्यालम्बनानि प्राप्यन्ते एव । यदि जीवः तादृशे दुष्टनिमित्तजाले मुहयेत् तर्हि दुर्गतौ एव स गच्छेत् । प्रियवर ! मनसो मायापाशे न केवलं प्राकृतजना अपि तु प्राज्ञपुरुषा उत्तमजनाः साधुवरा अपि वेष्टिता भवन्ति दैववशात् कदाचित् । एकदाऽप्यशुभमानसस्य विकल्पपाशे पतितैः जनैः ततो बहिर्निर्गन्तुं दुःशक्यं भवति, यथा मक्षिकाभिः श्लेष्मणः । ततो दुष्टालम्बनेभ्यो दूर वसनमेव हितकरं प्रशंसनीयं चास्ति । येनाऽनवधानं कृतं क्षणमपि तस्य का गतिः भूतेति ज्ञातुमनेके प्रसङ्गाः सन्ति, परंतु इदानीं त्रैलोक्याधिपतिश्रीमहावीरजिनेश्वरस्य षड्विंशतिशततमं जन्मवर्ष प्रचलति, अत: तस्यैवाऽन्तेवासिनः श्रीप्रसन्नचन्द्रराजर्षेः प्रसङ्गोऽवलोकनीयः । आसीत् प्रसन्नचन्द्रो राजपुत्रः । तस्य पित्रा ज्येष्ठभ्रात्रा चाङ्गीकृता तापसदीक्षा। अतः स एव राज्यस्याऽधिपतिरासीत् । यौवने प्राप्ते सति राजकन्यया सह पाणिग्रहणं कृतम् । राज्यसुखं कामसुखं भोगविलासं चाऽनुभवतः तस्य राज्या यथाकालमजनिष्ट एकः पुत्रः । एकदा घटिता घटना विचित्रा । तद्वशात् तस्य मनः संसारसुखाद् विरक्तं जातम् । चित्ते वैराग्यभावना प्रजाता। अभूदुत्सुकं तस्य चित्तं संयम स्वीकर्तुम् । ततस्तेन स्वयमेवाऽल्पवयस्कं निजबालकं राजसिंहासने स्थापयित्वा अशरण्यजीवानां शरणदातुः श्रीमहावीरस्वामिनः १०० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy