________________
मुनिधर्मकीर्तिविजयः। भय नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । तव कुशलं कामये । अत्र सर्वेऽपि मुनिवराः कुशलाः सन्ति ।
गतपत्रे मनसः स्थैर्यार्थमुपायाः प्रदर्शिताः । त्वयाऽऽनन्दः प्राप्त इति ज्ञात्वाऽतीव प्रफुल्लितमभूत् मेऽपि चित्तम् ।
साम्प्रतं त्वया पृष्टं यन्मनो लाभदायि वाऽलाभदायि?
बन्धो ! एतत्तु निश्चितमेव यन्निखिलसंसारपरिभ्रमणस्य मूलं मन एव नान्यत् यतो, मन एव तर्ककुतर्कवितकाद्यकुशलविकल्पजालं निरन्तरं रचयति । तत्कुशलाकुशलयोगात् शुभमशुभं वा कर्म बध्नाति । तत्कर्मणः फलानुसारेण जीवाः संसारचक्रे भ्रमन्ति । अशुभकर्मोदयात् कदाचिन्नरकगतौ कदाचित् तिर्यग्गतौ च प्रसरन्ति जीवाः । तथैव शुभकर्मवशाद्देवमनुजगत्योः जीवा गच्छन्ति । मनुजगतिमवाप्य प्रकृष्टधर्मसाधनाद्वारेण कर्मावलिं क्षपयित्वा शिवमपि संगच्छन्ते सुलभबोधिजीवाः । एवं भिन्न-भिन्नापेक्षया मनो लाभदायि अलाभदायि चाऽपि ।
मन एव मनुष्याणां बन्धमोक्षयोः कारणमिति शास्त्रेष्वपि वर्णितम्।
इदमप्यत्र ज्ञेयं यद् वस्तुतस्तु आत्मा विशुद्धस्फटिकवन्निर्मल एवाऽस्ति । तथाऽपि यथा स्फटिकस्याने स्थापितस्य नीलवस्तुनः प्रभावात् श्वेतस्फटिकमपि नीलं तथा रक्तपुष्पस्य संपर्कात् रक्तस्फटिकं दृश्यते खलु । अत्रात्मनोऽपि ज्ञेयमेवमेव यदात्मा निर्मल एवाऽस्ति, किन्तु मनस्युद्भवद्भिः प्रशस्तैरप्रशस्तैश्च भावैः कुशलमकुशलं कर्मवृन्दं बध्नाति । ततः तत्कर्मणो वशादात्मनि रागद्वेषयोः परिणतिः प्रजायते । ___ एतेन ज्ञायते यदशुभालम्बनेन चित्तं कालुष्यमवाप्नोति तथा शुभालम्बनेन मनो निर्मलतां प्राप्नोति । एवमार्तरौद्रध्यानाभ्यां कलुषितं चित्तमलाभदायि तथा धर्मशुक्लध्यानाभ्यां विशुद्धमानसं लाभदायि भवति ।
९९ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org