________________
शरणमुररीकृतम्। तत्पश्चात् स्वाध्याये तपसि भक्तौ शुभध्याने कठोरसंयमाराधानायां च निमग्नो बभूव स राजर्षिः । एवं कियत्कालादेव निर्मलसंयमजीवनाराधनया योग्यतामवाप्य झटिति क्लिष्टकर्मक्षयार्थं गुर्वाज्ञया श्मशाने गतवान् राजर्षिः । तत्रगत्वाऽतीव घोरं तपो ध्यानं चादृतं तेन । पादस्योपरि पाद आरोहितः, द्वावपि हस्तौ ऊर्वीकृतौ तथा दिनकरं प्रति दृष्टिः स्थिरीकृता, एतादृश्यां परिस्थित्यां स राजर्षिः कायोत्सर्गध्याने स्थितः । न केनाऽपि सह वदति, न हसति, न पश्यति, न मनागपि चलति, एवं निजशरीरस्य समस्तामपि क्रियां विस्मृत्य केवलं धर्मध्यानशुक्लध्यानयोरेव रममाणोऽभवत् । एवं कियान् कालो व्यतीतः ।
अत्रान्तरं सपरिकरो मगधराज्याधिपतिः श्रीश्रेणिकमहाराजो जगन्नाथश्रीवीरविभोः वन्दनार्थं मधुरदेशनाश्रवणार्थं च निर्गच्छन्नासीत् । तदा तस्य दृष्टिपथे एष राजर्षिः आगतवान् । राजर्षेः प्रशान्तरसनिमग्नं वदनारविन्दं अपूर्वतेजोन्वितं देहमेतादृशीं परमोत्कृष्टां साधनावस्थां च निरीक्ष्य तस्य श्रीश्रेणिकमहाराजस्य चित्ते साश्चर्यमानन्द उद्भूतः । मनस्यहोभावश्च संजातः । कायोत्सर्गे स्थितं तं राजर्षि पुनः पुनः नमस्कृत्य तूष्णीभावेन स्थितः कियत्क्षणम् । पश्चादेतन्मुनेः प्रवरसाधनाया अनुमोदनां कुर्वता तेन श्रेणिकमहाराजेन श्रीमहावीरविभोः सुखदायिसांनिध्यं प्राप्तम् । प्रभोः पापकलङ्कनाशिनीं मधुरां वैराग्यदेशनां च श्रुतवान् । .
प्रान्ते तेन राज्ञा पृष्टम् – भो ! भो ! विभो ! दृष्टो यो राजर्षिः मया मार्गे उत्कृष्टसाधनायां लीनः इदानीं यदि स म्रियेत तर्हि कुत्रोत्पद्येत?
प्रभुराह- भो ! श्रेणिक ! अधुना यदि स म्रियेत तर्हि सप्तमे नरके उत्पद्येत ।
आश्चर्योत्पन्नकारकं प्रभोरेतादृग्वचनं निशम्य स्तब्धीभूतेन राज्ञा पुनः पृष्टम्-प्रभो ! कथमेवम् ?
भगवता गदितं – राजन् ! श्रृणु ।
एतेन राजर्षिणा निखिलमपि संसारं विहाय दीक्षा कक्षीकृता । शनैः शनैः स परम साधनायाः मार्गमारूढः । कर्मक्षयार्थं कायोत्सर्गे स्थित आसीत् स राजर्षिः ।
साम्प्रतं यदा त्वं ससैन्यं वन्दनार्थमागच्छेः तदैतं मुनि निरीक्ष्य सुमुखनामकः चमूपतिरुवाच- अहो ! खलु एष मुनिः धन्यवादार्हः, योवनवयस्येव राज्यं कुटुम्बं
१०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org