________________
प्रार्थना .
- सा.संस्कारनिधि श्री
हे वर्धमानप्रभो !
अहं नित्यं त्वां स्मरामि ।। अहं न प्रार्थये संपदं, न कामये पदम्, न वाञ्छामि स्वर्गं, न चेच्छामि सौख्यम् । ममोपरि ईदृशीं कृपां कुरु, यतो मम हृदयभूमौ वर्धमाना विनयविवेक श्रद्धासंयमक्षमामार्दवादिगुणा लीलया विलसन्तु । हे वीरविभो !
भवभ्रमणेनाहं खिन्नोऽस्मि, क्षुब्धोऽरिम, श्रमितोऽरिम, व्यथितोऽस्मि । कृपां विधाय मयि ईद्दशं वीरत्वसङ्क्रमणं कुरु,
येनाऽहं कर्मसैन्यं विजित्य त्वत्समीपं झटित्यागच्छेयम् । हे करुणानिधान !
चण्डकौशिकादयो हिंसका अपि त्वयोद्धता, गोशालकादयो दुष्टा अपि त्वयोपकृताः, सङ्गमादयः पापिनोऽपि त्वया पवित्रीकृताः । प्रभो ! माद्दशस्य दासस्योपेक्षा न युक्तिसङ्गता। अहं त्वयनुरागवानस्मि । अनुग्रहं विधाय ममोपरि कृपादृष्टि प्रसार्याऽपाराद् भवार्णवाद् मां तारय ! तारय !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org