SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ हे वात्सल्यसिन्धो ! चन्दनाया अश्रूणि दृष्ट्वा तया दत्ता कुल्माषस्य भिक्षा त्वया स्वीकूता। प्रभो ! ममाऽश्रूणि तव दृष्टिपथे किं नाऽऽगतानि त्वया विना मम हृदयाङ्गणं शून्यं भासते । हे नाथ ! दयां विधाय मम हृदयमन्दिरं प्रविश्य मां पुनीहि, पुनीहि । हे जगद्बन्धो ! प्राज्ञशिरोमणेरिन्द्रभूतेरहङ्कारं दलित्वा तस्मै प्रथमशिष्यत्वं गणाधिपत्यं च त्वया प्रदत्तम् । त्वत्तोऽहं न याचे गणं, किन्तु याचे गुणम् । बाल्यकालेऽङ्गुष्ठस्पर्शमात्रेण त्वया मेरुगिरिः कम्पितः । इदानीं ममाडहङ्कारमेरुं चूर्णीकृत्य विनयगुणेन मां भूषय । हे साम्योदधे ! श्रेणिकादीनां भक्तिमतां भक्त्या त्वच्चित्तं मनागपि न विस्मितं, सङ्गमादीनामपकारीणां दुश्चेष्टया न च कदापि चलितम् । मच्चित्तस्थितिमपि ईदृशीं कुरु, येनाऽहं सर्वपरिस्थितिषु समचित्तो भवेयम् । हे कृपानिधे ! त्वत्षण्मासव्याधिवृत्तान्तं श्रुत्वा रुदन् सिंहमुनिस्त्वया भिक्षार्थं रेवत्या गृहं प्रेषितः । प्रासुकबीजपूरकपाकस्य दानेन रेवत्या तीर्थकृन्नामकर्मोपार्जितम् । भक्त्योल्लसत्सोमाञ्चकण्टकः सिंहमुनिस्तु त्वत्स्वास्थ्यलाभेन हर्षितः । मह्यमपि ईदृशी भावनां देहि, येनाऽहं सर्वेषां समाधिहेतुर्भवेयम् । मम काउपि चेष्टा परदुःखनिमित्तभूता मा भूत् । २३ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy