________________
सहृदयवाचकानां प्रतिभावः
पत्रम् र
श्रीविजयशीलचन्द्रसूरीश्वरेषु
सादरविनयाः प्रणतयः ।
भवद्भिः सानुकम्पं प्रहितं नन्दनवनकल्पतरोः शाखाचतुष्टयं प्रेक्ष्य समजनि सुमहान् प्रमोदः । संस्कृतभाषायाः (सहैव प्राकृतभाषाया अपि) शिखरस्था अपि तलस्पशिवैदुष्यवहाः श्रीमन्तः संस्कृते विविधशास्त्रज्ञानसम्प्रेषणेन सह समास्वाद्यमाधुर्यवहान् पाठान् समाविश्य यत् कल्पतरोः प्रादुर्भावं विहितवन्तस्तदर्थं सर्वे संस्कृतसेविनः श्रीमतामाधमयं वक्ष्यन्तीति निश्चप्रचम् । संस्कृतसाहित्येतिहासे समुल्लेखा)ऽयं साहित्यप्रवाहः, किन्तु परिज्ञानमस्याऽल्पीयसामेव संस्कृतसेविनां स्यादित्याशङ्के। यतो हि सपद्येव प्रकाशिते संस्कृतवाङ्मयेतिहासे (उत्तरप्रदेशसंस्कृतसंस्थानेन प्रकाशिते) जैनविदुषां संस्कृतसाधनाया अध्याये नाऽवालोक्यत मयैतस्योल्लेखः ।
'भारतीपत्रिकायामवश्यमस्योल्लेखः संक्षिप्तसमीक्षादिकं च प्रकाशयिष्यते इति निश्चप्रचम् । एवंविधा श्रीमतां तत्रभवतां साधना सुतरां वन्दनारे । C/8, पृथ्वीराजरोड
देवर्षिकलानाथशास्त्री जयपुर
प्रधानसम्पादकः ३०२००१
'भारती'
१. समीक्षेयं भारतीपत्रिकाया जनवरीमासीयेऽङ्के प्रकाशिता व्यलोक्यत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org