________________
(३४) अव्युच्छित्तिः
विवक्षितस्य वस्तुतत्त्वस्य यावत्कालं सम्पूर्णतया सिद्धिर्न भवेत् तावद् विविधैः प्रमाणैस्तदखण्डित
वाक्प्रवाहेण साधयदर्हतां वाक्यरचनं भवति । (३५) अखेदित्वम्
वचनविन्यासावसरे कथयितुः स्वल्पोऽपि खेदः श्रम आयासो वा यत्र न भवेत् तादृश्येव भवति
जिनपुरन्दाराणां प्रवचनशैली ।। यद्यप्येतेभ्योऽन्यतमाः सर्वेऽपि वैते गुणा गणधराणां श्रुतकेवलिनामितरेषामपि च प्रवचनप्रभावकाणां महापुरुषाणां देशनायां संवेविद्यन्ते तथाऽपि परमपुण्यप्रकर्षशालिनां निष्कारणवत्सलानां जिनपुरन्दराणां निःश्रेयसनिःश्रेणिकल्पायां देशनायां त्वेते गुणाः परां काष्ठां प्राप्नुवन्तीति ।
एवंविधैरुदारैरुदात्तैश्च गुणश्रेष्ठैः समलङ्कृता श्रीमतां जिनेश्वराणां वाणी निःशेषमपि जगत् पवित्रयतु।
कषायतापार्दितजन्तुनिर्वृतिः करोति यो जैनमुखाम्बुदोदगतः ।
स शुक्रमासोद्भववृष्टिसन्निभो
दधातु तुष्टिं मयि विस्तरो गिराम् ॥ (सन्दर्भग्रन्थः गूर्जरभाषायां-मुनिश्रीतत्त्वानन्दविजयलिखितो 'देवाधिदेव-भगवान् महावीर' इति ।)
विषमस्थलटिप्पणी प्रसरीसति
अभीक्ष्णं प्रसरति । स्थावराः
पृथ्वी-जल-वह्नि-वायु-वनस्पतिजीवाः । घातिकर्मचतुष्टयं
जीवस्य ज्ञान-दर्शन-चारित्र-वीर्यगुणान् घातयन्ति-आवारयन्तीति घातिकर्माणि, तानि
चत्वारि - ज्ञानावरणीयं दर्शनावरणीयं मोहनीयं अन्तरायं च । समूलकाषं कषित्वा
मूलतो विनाश्य । देशना
प्रवचनम्। प्रवरीवृत्यन्ते
पुनः पुनः प्रवर्तन्ते ।
६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org