________________
(२६) विभ्रमादिदोषविमुक्तता
(२७) चित्रकृत्त्वम्
(२८) अद्भुतत्वम्
(२९) अनतिविलम्बिता
व्यत्ययात्मकैर्वचनदोषैनितरां विरहितमेव जिनवचनं भवति । विभ्रम-विक्षेप-किलिकिञ्चितादिभिर्मानसैर्दोषै रहितं तद् भवति । वक्तु र्मनसो भ्रान्तिविभ्रमः, कथयितव्येऽर्थे वक्तुरनासक्तिर्विक्षेपः, युगपद् विविक्तैर्वा रोष-भया-ऽभिलाषादिविकारैर्मनसो व्याकुलत्वं किलिकिञ्चिता कथ्यते ।) प्रतिपाद्यमानवस्तुस्वरूपे श्रोतृणां निरन्तरं कुतूहलं जनयद् भगवतां देशनावचनं भवति । श्रूयमाणं हि भगवद्वचनं पर्षदां 'अद्भुतं अद्भुतं' इत्युद्गारजनकं भवति । द्वयोः शब्दयोः पदयोर्वाक्ययोश्च मध्येऽतिविलम्बविरहितं जिनेन्द्रभाषितं भवति । (यतो यदि तत्राऽतिविलम्बो भवेत् तदा श्रोतृणां सम्यग् बोधो न भवेत् ।) विवक्षितवस्तुतत्त्वस्य वैचित्र्यवैविध्यसनाथैर्वर्णनैः श्रोतृन् रससागरे निमज्जयति जिनराजवचनम् । अन्येषां वक्तृवरेण्यानामपि वक्तव्यापेक्षया सर्वथा सर्वदा च वैशिष्टयावहं भवति जैनेन्द्रं वचनम् । सत्त्वगुणस्य प्राधान्य एव समादरशालिनी भवति तीर्थकरपरमात्मनां कथन श्रेणिः । वर्ण-पद-वाक्यानां समुच्चारणे यथोचितमन्तरमनुसृत्यैव विस्पष्टतया सम्भाष्यमाणं जिनोत्तमानां देशनावचनं भवति ।
(३०) अनेकजातिवैचित्र्यम्
(३१) आरोपितविशेषता
(३२) सत्त्वप्रधानता
(३३) वर्ण-पद-वाक्यविविक्तता
५९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.