SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ (१५) प्रस्तावौचित्यम् (१६) तत्त्वनिष्ठता (१७) अप्रकीर्णप्रसृतत्वम् (१८) अस्वश्लाघान्यनिन्दत्वम् (१९) आभिजात्यम् (२०) अतिस्निग्धमधुरत्वम् (२१) प्रशस्यत्वम् (२२) अमर्मवेधता (२३) औदार्यम् (२४) धर्मार्थप्रतिबद्धता (२५) कारकाद्यविपर्यासत्वम् Jain Education International देश-काल-पुरुषा-ऽवस्था - परिणति - शुद्ध्यादीन् भावान् प्रसमीक्ष्य भगवताऽवसरोचितमेव वचनं कथ्यते न पुनरेकदण्डन्यायेन । प्रभुवचनं विवक्षितस्य वस्तुनः स्वतत्त्वमेवा - ऽनुसरति । सुसंश्लिष्टैः पदैर्वाक्यैश्च सुसम्बद्धा, विषयान्तररहिता, अतिप्रस्ताररहिता च प्रभोर्देशना भवति न पुनरितस्ततो मेलितैर्वाक्यैर्विप्रकीर्णा । प्रभोर्देशनायां कदाऽपि स्वात्मश्लाघा न भवति, न चाऽपि परेषां केषामपि निन्दा भवति । स्वस्योच्चकुलीनत्वं प्रतिपाद्यविषयस्य च श्रेष्ठत्वं प्रदर्शयत् प्रभोर्वचो भवति । घृत-मधु - द्राक्षादीनां पानमिव भगवद्वचनमपि नितरां स्नेहसमाकुलं माधुर्यप्रकर्षवच्च भवति, श्रोतॄणां चाऽतीव सुखद् भवति । उत्तमैर्गुणैर्युक्तत्वात् पण्डितजनैरप्युपगतश्लाघं तद् भवति । परेषां मर्मप्रकाशित्वेन मर्मवेधित्वेन चाऽत्यन्त - विरहितमेव प्रभोर्वचनं भवति । तुच्छतालेशेनाऽप्यसम्पृक्तं भगवद्वचनं सर्वदौदार्ययुक्तमेव भवति । धार्मिकेनाऽऽर्थिकेन च विषयेण सुप्रतिबद्धमेव तद् भवति न पुनस्तद्विरहितम् । कारक-काल-वचन-लिङ्ग- जात्यादीनां ५८ For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy