________________
"मालवकैशिकीमुख्यग्रामरागपवित्रितः । तव दिव्यो ध्वनिः पीतः हर्षोद्ग्रीवैर्मृगैरपि ।।" ।
(वीतरागस्तवः ५/३) (एते सप्ताऽपि वचनातिशयाः शब्दापेक्षया भवन्ति । शिष्टा हि सर्वेऽपि वचनातिशया अर्थापेक्षया ज्ञातव्याः ।) (८) महार्थता
महता-व्यापकेन वाच्यार्थेन युक्तं तद् वचनं भवति ।
न तु अल्पार्थद्योतकम्। (९) अव्याहतपौर्वापर्यम् पूर्वं कथितानां वाक्यार्थानां पाश्चात्यैर्वाक्याथैः
कदाऽपि विरोधो न भवति तेषां देशनायाम् । (१०) शिष्टत्वम्
सैद्धान्तिकैरथैर्रर्थवत्त्वात् वक्तुः शिष्टत्वस्य सूचका तेषां वचनपद्धतिर्भवति । (निर्मलज्ञानं, धीरिमा, सज्जनत्वं, इत्यादिभिर्गुणैर्गुणवन्तः पुरुषाः शिष्टाः कथ्यन्ते । तेषां वचनं शिष्टवचनं भवति । एते तु जगतोऽपि विशिष्टाः शिष्टाः अतस्तद्वचनं तु
शिष्टत्वयुक्तमेव भवति ।) (११) निःसन्देहत्वम्
श्रूयमाणं हि तेषां भगवतां वचनरचनं पर्षदां संशयान्
निर्मूलतया उच्छेदयति, न तु तत् सन्दिग्धं भवति । (१२) निराकृतान्योत्तरत्वम् अंशलेशेनाऽपि दूषयितुमशक्यः प्रभोर्वाक्यविस्तरो
भवति । (१३) हृदयङ्गमत्वम्
शोश्रूयमाणा हि तद्वचनपङ्क्तिः पेपीयमान-पीयूषगण्डूषा इवाऽन्तःकरणं
नितरामालादयति । (१४) मिथः साकाङ् क्षत्वम् । पदानां वाक्यानां च परस्परमपेक्षावती
प्रभोर्देशनावलि-भवति, न तु निरपेक्षा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org