SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ दृश्यतेऽत्र कलिकालेऽपि बहव ऐदंयुगीना अपि महापुरुषाः ये एकमपि निजं वचनं प्रयुज्य नैकान् जनान् हितस्य राजपथे योजयन्ति । तयेते तु परमपुरुषाः परमसत्त्वशालिनश्च, अतस्तेषां वचांसि संश्रुत्य हि जीवा नितान्तहितमार्गे सुतरां प्रवर्तन्ते एव । ततश्च नाऽत्र विस्मयकारणं किमपि । एवं तेषां जिनपुरन्दराणां वचनपद्धतिरन्येभ्यो सर्वथा सर्वदा चाऽतिशायिनी भवति । तस्या वाण्या अनेके लोकोत्तरगुणा सन्ति, किन्तु शास्त्रेषु लाघवमाश्रित्य मुख्यतया पञ्चत्रिंशद् गुणाः वर्णिताः प्राप्यन्ते । यदुक्तं श्रीसमवायाभिधाने तुरीयेऽङ्गसूत्रे 'पणतीसं सच्चवयणाइसेसा' इति ।। शास्त्रेषु ह्येतेषां गुणानां वर्णनं विशदरीत्या लभ्यते । इह तु तेषां नामानि सामान्यभावार्थान्वितानि सङ्ग्रहीतानि । गुणाः भावार्थः (१) संस्कारवत्त्वम् सभ्यता-व्याकरणशुद्धिप्रमुखैरुत्तमैः संस्कारैः संस्कृतं श्रीमतां जिनेश्वराणां देशनावचनं भवति न तु संस्काररहितम् । (२) औदात्त्यम् उच्चस्वरेण स्पष्टोच्चारैश्च भाषितं तेषां, न पुन-रस्पष्टं मन्मनायितमिव । (३) उपचारोपेतत्वम् सौम्यैर्मनोज्ञैश्चोपचारैस्तदुपचरितं भवति न तु निष्ठुरं परुषं वाऽपि। (४) मेघगम्भीरघोषवत्त्वम् प्रावृट्काले वर्षतां महामेघानां निर्घोषध्वनेरिव गम्भीरघोषयुक्तं प्रभोर्वचो भवति । (५) प्रतिनादविधायिता उच्चार्यमाणं हि तद् वचनं प्रतिरवं विदधाति । (६) दक्षिणत्वम् अत्यन्त सरलं तद् भवति न तु कठिनम् । (७) उपनीतरागत्वम् मालवकैशिकी(मालकौंस)प्रमुखैामरागैर्मधुरतया निगदितं प्रभोर्वचनं भवति । यदुक्तं कलिकालसर्वज्ञैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy