SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ समस्तसन्देहनाशिनीं सकलभाषासंवादिनी च वाणी धर्मदेशनास्वरूपेण प्रयुञ्जन्ति । यदाहुः कलिकालसर्वज्ञाः श्रीहेमचन्द्राचार्याः जगन्महामोहनिद्रा-प्रत्यूषसमयोपमम् । मुनिसुव्रतनाथस्य देशनावचनं स्तुमः ॥ अनया देशनया ते एकान्तहितकरं मोक्षप्रापणोपायं प्ररूपयन्ति यं श्रुत्वा ज्ञात्वा अवधार्य श्रद्धाय आदृत्य आचर्य संसाध्य च बहवो जीवाः निःश्रेयसभाजिनो भवन्ति । एतदेव हि तेषामन्येभ्योऽतिशायित्वं येन ते एवमुपकर्तुक्षमाः । उक्तं च प्रवचनसारोद्धारवृत्तौ___"न ह्येवंविधभुवनाद्भुतमतिशयमन्तरेण युगपदनेकसत्त्वोपकारः शक्यते कर्तुमिति" । (प्रवचनसारोद्धारे ८८३ तमगाथाया वृत्तिः ।) अथो भगवन्तस्ते निजदेशनामिमां यद्यपि तद्देशकालस्थित्यनुसारेण अर्धमागधीभाषायां ददते तथाऽपि तां वाणी भगवतां पुण्यातिशयेन योजनप्रमाणे समवसरणे स्थिताः सर्वेऽपि यक्षासुरचन्द्रेन्द्रादयो देवाः तेषां देव्यः, किरातशबरार्यप्रमुखा मनुष्याः, सिंह-हरिण-सर्पनकुलाश्व-गजादयाश्च तिर्यञ्चो निज-निजभाषायां ससुखमवबुध्यन्ते । कथितमपि च - देवा दैवीं नरा नारी शबराश्चाऽपि शाबरी । तिर्यञ्चोऽपि हि तैरश्ची मेनिरे भगवगिरम् ॥ अयं हि महानतिशयः प्राकृतैर्जनैश्च सर्वथा सुदुरापस्तथाऽपि नाऽयं भवति अश्रद्धाया विषयः आश्चर्यस्य वाऽपि कारणं, यतोऽधुनातनेऽपि यन्त्रयुगे वैश्विकेषु सम्मेलनेषु आन्तरराष्ट्रीयासु च धार्मिक-राजकीय-साहित्यिकसभासु विविधभाषास्वपि गदितं वक्तव्यं काव्यं सूचनं वा नानादेशेभ्य आगताः तथा च नानाभाषाभाषिणोऽपि सभासदो इण्टरप्रिटर् (INTERPRETER)-प्रमुखयन्त्रोपयोगेन निजनिजभाषास्वेव सम्यक्तया प्रतिपद्यन्तेऽवबुध्यन्ते तथा भगवन्तस्ते देशनामिमां परमसत्यतया परममनोज्ञतया परमकल्याणकारितया च भाषन्ते यां श्रुत्वा बहवो जीवा निजयोग्यतानुसारं प्रतिबोधं सम्प्राप्याऽपवर्गसंसाधनाय प्रवरीवृत्यन्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy