________________
Jain Education International
युवानः वृद्धाः स्त्रियः पुरुषाः सैनिकाः नागरिकाः
रुग्णाः अपि चिकित्सकाः अपि
प्रवासिनः निवासिनश्च
अपराधिनः आरक्षकाच
विद्यार्थिनः अविद्यार्थिनश्च अधिकारिणः अनधिकारिणश्च,
हिन्दवः मुस्लिमाः अपि
जैनाः ब्राह्मणाश्च
महाजनाः हरिजनाश्च
नाऽत्र प्रकृत्याः पक्षपातः ( अपि तु वज्रपातः),
पुत्राः जननीरहिताः पुत्र्यश्च
मातरः सन्तानहीनाः पितरश्च दृश्यन्ते
तत्र सर्वत्र,
अद्यत्वे तत्र
विधवाः स्त्रियः
विभार्याश्च पुरुषाः न विस्मयास्पदम्, नवतिवर्षदेश्याः दशमीस्थाश्च कथञ्चिद् उद्धृताः जीवन्ति च नवमासीयाः नववर्षीयाः
२५
For Private & Personal Use Only
www.jainelibrary.org.