________________
नवयौवनस्थाश्च नष्टाः मृताः म्रियन्ते च, लक्षशो मृतदेहाः अद्याऽपि निखाताः भूमिस्थाश्च कुथ्यन्ति एव, लक्षशो जनानां गृहत्यागः (न तु सन्न्यासः) प्रकृत्या बलात् कारित: त्यागः, मृतास्तु मुक्ताः दुःख्नेभ्यः । अर्धमृताः अ-मृताश्च अवशिष्टाः दुःखभारं उद्वोढुं पीडोत्करं च सोढुम्, यत्र तत्र दरीदृश्यन्ते खञ्जाः कुण्टा: व्रणिताः पट्टपिहितावयवाश्च जनाः भूताः चिकित्सालयाः अलब्धचिकित्साः दुर्लब्धचिकित्साश्च प्रतीक्षन्ते मुक्तिम् (मृत्युम् ?), द्वारपिधानस्वनेऽपि पवनवेऽपि च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org