________________
द्रुतविलम्बितम्
र काव्यनिकुआम्
मुनिः भुवनचन्द्रः ‘चिन्मयः'
विवधसत्ववाहनसंकुले क्षणमथो ननु निर्जननिःस्वने विहरता वितते हि महापथे द्रुतविलम्बितमेव गतं मया
. स्वमनसा तु मनोरथमात्रतः सपदि यत्र मया बत गम्यते पदयुगेन तु तत्र कियद्दिनै द्रुतविलम्बितमेतदपीक्ष्यताम्
રો प्रचुरकालकृतश्रमनिर्मितं । जनपदं नरं च गृहादिकम् अहह ! भूचलनाद्विगतं क्षणाद् द्रुतविलम्बितता बत कीदृशी ! ॥३॥ समयदर्शकयत्रघटीस्थितो . लघुकरस्तु विलम्बगतिं श्रितः ।। झटिति लम्बकरः खलु धावति द्रुतविलम्बितता समयस्य सा ॥४॥ सुखमयः समयो लघु सर्पति स्थगित एव विभाति तु दुःखदः । समयसारथिना जनजीवनं द्रुतविलम्बितमित्यतिवाह्यते अथ शनैरथ शीघ्रमपि भ्रमद् विघटयद् घटयद् घटनाः क्रमात् । समयचक्रमिदं परिवर्तते द्रुतविलम्बितमेवमनारतम्
દો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org