________________
*गलज्जलिका
(१) शनैः शनैः
अभिराजराजेन्द्रमिश्रः अध्यक्ष, संस्कृत-विभाग शिमला युनिवर्सिटी
प्रीतिक्षुपं विवर्धय बन्धो ! शनैः शनैः
सुहृदां मनोऽनुरञ्जय बन्धो ! शनैः शनैः ॥ १ ॥ मा त्वत्कृतेऽपि झञ्झाकौलीनमुद्भवेत् वाचस्समीरमीरय बधो ! शनैः शनैः ॥ २ ॥
परितोऽपि पामराणां तृणशालिका इमाः
होलानलं समिन्धय बन्धो ! शनैः शनैः ॥ ३ ॥ अभितो गभीरन्द्यौ गिरिश्रृङ्खला पुरः यात्रामिमां समापय बन्धो ! शनैः शनैः ॥ ४ ॥
पक्चैः पतन्त्वपक्वान्यपिनो समं फलानि
शाखां ततो विधूनय बन्धो ! शनैः शनैः ॥ ५ ॥ निश्चेतनोऽस्मि जातस्त्वयि लीनविग्रहः आश्लेषमाशु रेचय बन्धो ! शनैः शनैः ॥ ६ ॥
*गलन्ति जलानि नयनाश्रूणि यस्यां सा मर्मच्छिद् गीति: गलज्जलिका ('गजल' इति भाषायाम्) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org