________________
अतिवेगेन तमागच्छन्तं दृष्ट्वा विस्मितेन द्वारपालेन पृष्टं - 'भोः ! किमिति त्वमेवं वेगेनाऽऽगतोऽसि ? अनिष्टं तु किञ्चिन्न दृष्टम् ?' तेनोक्तं 'यदि मम पक्षद्वयमभविष्यत् तर्हि उड्डीय एव आगमिष्यम् । त्वं झटिति महाराजपादान् निवेद्य मामन्तः प्रवेशय । अतीवाऽऽवश्यक समाचारं दातुमहमागतोऽस्मि ।' ___एतन्निशम्य महाराजाज्ञां लब्ध्वा द्वारपालस्तं सभान्तः प्रावेशयत् । सोऽपि मध्येसभं गत्वा 'परमभट्टारक-निःशेषनराधिपमृगमृगाधिप-राजाधिराज-श्रीश्रीश्रीश्रेणिकबिंबिसारमहाराजपादाः सर्वदा विजयन्तेतराम्' इत्युक्त्वा सविनयं महाराजं प्राणमत् ।
उच्चैः श्वासोच्छासयन्तं हर्षोत्फुल्ललोचनं च । तं दृष्ट्वा श्रेणिकेन राज्ञा साश्चर्यं स पृष्टः 'भो उद्यानपालक ! केन हेतुना त्वमेतावता वेगेनाऽत्राऽऽगतोऽसि ? अत्यन्तं प्रसन्नश्च कथं दृश्यसे?' __ "कृपालवः ! किं वदामि ? हर्षेण मम हृदयं सम्पूरितं वर्तते । अद्यतनो दिवसः सौवर्णो दिवसः । अद्य जगत्पूज्या जगद्गुरवस्त्रिभुवनजनप्रतिपालका ज्ञातकुलनभोमणयश्चरमतीर्थाधिपतयः श्रीमन्तो वर्धमानमहावीरस्वामिनो ग्रामाकरनगरपुरपृथु पृथिवीं पवित्रयन्तोऽसङ्ख्येयसुरासुरैः परिकरिता गुणशीलचैत्योद्याने समुपागता विराजन्ते । अत इमं जनमानसानन्दनं समाचारं भवद्भ्यः सन्देशयितुकामोऽहं धावं धावमागतोऽस्मि ।" इत्यु द्यानपालके न तेन कथितमात्रे राजा निजसिंहासनात् सहसोत्थाय हर्षगद्गदस्वरोऽकथयदुच्चैः
"किं स्वामिनः समवसृता अद्य राजगृहे ? नूनं धन्योऽहं, धन्यानि मम भागधेयानि, धन्यं चेदं राजगृहं नगरं यत्र जिनाधिपानां पादन्यासमिषेण कृपाधाराधरा ववर्षुः । विशेषेण त्वहं तवैव धन्यमानी येन सर्वप्राथम्येन प्रभूणां दर्शनं कृत्वा निजात्मा पावनीकृतः ।' इत्युक्त्वा तस्मै राजचिह्नवर्जानि सर्वाण्यपि हारप्रभृतीनि विभूषणानि प्रभूतं च धनं प्रदाय विसृष्टः सः । स्वयं च गुणशीलचैत्योद्यानदिशि स्थित्वा परमवैनयिकपूर्वं भगवत्पादान् नमस्याञ्चकार ।
तदनु प्रतीहारमाहूय सर्वत्र नगरे घोषयामास यत्-'अद्य महोत्सवदिनमस्ति । सर्वैरपि पौरै रमणीयाभरणनेपथ्यशालिशरीरैः सम्भूय गुणशीलचैत्योद्याने जननजरामृतिप्रभृति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org