________________
निरीक्ष्य दूनमनाः साऽभूत् । सर्वान् गृहव्यापारान् त्यक्त्वा सा शोकमग्ना इव स्थिता । अत्रान्तरे समागतः सुगुप्तो मन्त्री । तादृशीं तां विलोकय उद्वेगस्य कारणं स पृष्टवान । सा उक्तवतीकिञ्चिदाक्रोशपूर्वकम्, यत्- 'बहुभ्यो दिनेम्यो भगवान् महावीरोऽन्नपानादिकमगृहीत्वैव सर्वस्थानेभ्यो निर्वतते । न जाने कोऽभिग्रहविशेषस्तेन भगवता स्वीकृत: ? भवान् अमात्यः, 'सुबुद्धि:' इति च ख्यातः, अतो यदि नाम भवानभिग्रहं न विजानीयात् तर्हि को लाभो बुद्धिविभवस्य तव ?'
एतच्छ्रुत्वा मन्त्री अवोचत् - ' त्वं चिन्तां त्यज । श्वस्तथा करोमि यथाऽभिग्रहो ज्ञायेत ।' इतः कस्मादपि कारणवशात् मृगावतीराज्ञ्यः विजया नाम प्रतिहारी तत्र समागताऽऽसीत् । सर्व चेदं व्यतिकरं राज्ञीसमीपं गत्वा यथाश्रुतं सा निवेदितवती । राज्ञी अपि चिन्ताकुला जाताऽनेन व्यतिकरेण । नृपेण पृष्टा सा साक्रोशम्- 'राजा भूत्वाऽपि भवान् न जानाति यद् भगवान् क्व विहरति ? कथं वा भिक्षां प्राप्नोति ?' - इति उक्तवती । सर्वमपि वृत्तान्तं ज्ञात्वा तां च समाश्वास्य राजाऽपि सचिन्त आस्थामन्डपं गतवान् । मन्त्रिणं च समाहूय सोपालम्भमुक्तवान् यत् - ' अत्र विहरन्तमपि भगवन्तं भवान् न जानातीति न युक्तम् । चतुर्भिर्मासैः भगवता न किमपि अन्नपानादिकं गृहीतम्' इति । स व्याजहार - 'स्वामिन् ! ‘राज्याद्यपरापरकार्यव्यस्तत्वात् नैतद् ज्ञातं मया । इदानीं यथा भवानाज्ञापयेत तथा सम्पादयामि' ।
पश्चात् राज्ञा धर्मशास्त्रपाठक आकारितः । तं चाऽपृच्छन्नृपः - 'भवतो धर्मशास्त्रेषु विविधानामाचाराणां निरूपणमस्ति । ततो भगवता कोऽभिग्रहविशेषः प्रतिपन्नोऽस्ति इति कथयतु | अपरं च मन्त्रिन् ! भवानपि बुद्धिमान् अतोऽत्र कोऽप्युपायश्चिन्तनीयो भवताऽपि इति ।
क्षणं विचिन्त्य तावुक्तवन्तौ - 'अनेके द्रव्यक्षेत्र - कालभावभेदभिन्ना अभिग्रहा भवन्ति । अतो नैतत् निर्णेतुं शक्यं यत् कोऽभिग्रहो भगवता गृहीतः स्यात्' इति ।
कथनमेतत् तयोः श्रुत्वा, अभिग्रहाणां च भिन्नभिन्नप्रकारान् ज्ञात्वा राज्ञा नगर्यामुद्धोषणा कारिता यद्- ‘सर्वैः जनैरेवं भिन्नभिन्नप्रकारैः भगवान् निमन्त्रयितव्यः, येन तेषामभिग्रहपूर्तिः
Jain Education International
७१
For Private & Personal Use Only
www.jainelibrary.org