________________
-
प्रसड़ाः
प्रसिद्धा कथा
अप्रसिद्धा घटना (१) चन्दना
मुनिरत्नकीर्तिविजयः। कौशाम्बी नाम नगरी आसीत् । तां पराक्रमी शतानीको नाम राजा शास्ति स्म । तस्य भार्या मृगावती आसीत् । सा च चेटक महाराजस्य दुहिताऽधिगतधर्म परमार्था तीर्थकरचरणसेवनरक्ता आसीत् । राज्ञः कार्येषु निपुणः कुशलबुद्धिः सुगुप्तो नामाऽमात्यः आसीत् । तस्याऽपि जिनधर्मानुरागिणी नन्दाभिधाना पत्नी आसीत् । तस्यामेव च नगर्यां धनावहो नाम श्रेष्ठी स्वकीयया मूलानामभार्यया सह निवसति स्म । ___अथ ग्रामानुग्रामं विहरन् श्रमणो भगवान् महावीर एकदा कौशाम्बीनगरीमागतवान् । तत्र च पोषबहुलप्रतिपदि दिने तेन भगवता दुष्कर एकोऽभिग्रहो गृहीतः । तद्यथा - "यदि लोहनिगडनिबद्धचरणा, अपनीतशिरोरुहा, शोक भरावरुद्धकण्ठगद्गद्गिरं रुदती, राजकन्याकाऽपि भूत्वा परगृहे वासं प्रपन्ना, त्रीणि दिनानि अनशिता, गृहाभ्यन्तरनिक्षिप्तैकचरणा, द्वितीयचरणलङ्घितगृहद्वारदेशा काऽपि कन्या प्रतिनिवृत्तेषु सकलभिक्षाचरेषु शूर्पण कुल्माषान् दद्यात् ततः परमहं पारयामि'' इति । एवं गृहीताभिग्रहो भगवान् नित्यं यथाकालं भिक्षार्थमुच्चनीचादिकुलेषु परिभ्रमति किन्तु न किञ्चिदपि लभते । पौरा अपि भगवन्तं किमप्यगृहीत्वैव गृहाङ्गणात् प्रतिनिवर्तमानं दृष्टा ग्लानिमनुभवन्ति स्म । किन्तु किंकर्तव्यमूढा इव ते न किमपि कर्तुं शक्ता भवन्ति स्म । ___ एवमेव व्यतीतं मासचतुष्टयम् । अथ अभिग्रहानुरूपाहारानुपलब्धावपि अदीनमनाः भगवान् एकदा सुगुप्तमन्त्रिण आवासे भिक्षार्थमागतः । भगवन्तमुपलक्ष्य तस्य भार्याऽतीवप्रसन्नवदना जाता । धावन्ती इव भगवतः सम्मुखमागत्य भिक्षादिसामग्री च सज्जीकृत्य सा भगवन्तं निमन्त्रितवती । किन्तु ततोऽपि निराहार एव निर्गतो भगवान् । यथागतं निवृत्तं भगवन्तं
७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org