________________
बजाज - M.S.M. इब्राहिम - विजयराजसिंह इत्यभिधै: रूसदेशस्थिते सूजडलप्रदेशे 'शिलासु वधशाला-जनित-भूरैखिक- प्रत्यस्थ- पीडातरङ्गाणां पारस्परिकप्रभाव: (INTERACTION OF ABATTIOR-GENERATED NON-LINEAR ELASTIC PAIN- WAVES IN ROCKS)' इति विषये प्रयोगशालासु नाना प्रयोगाः कृताः । जगतः समक्षं चैका नूतना धारणा प्रस्तुता - प्रस्थापिता च यत्-भूकम्पा: हिंसा-क्रूरता - हत्या - वधशाला - युद्धादिभिरेव जन्यन्ते । यदि एते हिंसादयः सर्वथा निरुध्येरन् अल्पीक्रियेरन् वा तदा भूकम्पाः सीमिता भवेयुस्तेषां तीव्रता वा मन्दीभवेत् ।
अध्येतॄणां ह्येतेषां उपपत्तिरियं न काल्पनिका सांवृतिका वा किन्तु तत्पूर्वगामिनां, भूकम्पप्रक्रियां च प्रति सततं सावधानानां सर्वेषां वैज्ञानिकामपि अयमेव निष्कर्षः ।
किञ्च ये पीडा-तरङ्गा (PAIN-WAVES) जगद्विश्रुतस्य वैज्ञानिकस्य आल्बर्ट आइन्स्टाईनइत्यस्य नाम्नाऽभिहितास्ते जगतः पीडायाः सर्वोच्चतीव्रतां धीरयन्ति । एते हि तरङ्गास्तदैवाऽनुभूयन्ते यदैव क्वचित् कदाचिदपि कस्यचित् प्राणिनो हिंसा वधो वा भवेत् । एते तरङ्गा धरित्र्या मौलिकी - संरचनायाः सन्तुलनं विकृतयित्वा तां ध्वंसं प्रति हठात् नयन्ति ।
बहूनां भूकम्पाध्ययननिरतानां विदुषां वैज्ञानिकानां च साग्रहं सूचनं यत्-उत्कनिष्कर्षविषये गभीरतया विचारणं कृत्वा शीघ्रमेव इमान् तरङ्गान् नियन्त्रयितुं यतनीयमिति । अस्मिन् विषये उपर्युक्तैस्त्रिभिरपि विद्वद्भिः लिखितं ETIOLOGY OF EARTHQUAKES - A NEW APPROACH - इति पुस्तकमपि एकं नूतनमध्यायं प्रकाशयति । यदि एतस्मिन् पुस्तके उल्लिखितानां बहुमूल्यानां संशोधनानां निष्कर्षाणां च शासनेन उपेक्षा क्रियेत परीक्षणं वा न क्रियेत तदा भूकम्पानां दुष्परिणामार्थं शासनस्यैव उत्तरदायित्वं आगमिष्यति ।
यदा देशस्य प्रमुखैः समाचारपत्रैः अयं निष्कर्ष: स्वीयपत्रेषु रेखाङ्कितः प्रकाशितश्च तदा केनचिदपि, विशेषतो नागरिकैः इमां निष्पत्तिं प्रति उदासीनै: स्थातुं कथमपि न योग्यम् ।
-
वैज्ञानिकवर्य-वैकस्टरेण डॉ. जगदीशचन्द्रबसुना च THE SECRET LIFE OF PLANTS (PENGUIN 1973) इति पुस्तके 'ब्रह्माण्डे सर्वमपि वस्तु परस्परं सघनतया सम्बद्धम्' इति सिद्धान्त: सदृष्टान्तो विवृतोऽस्ति । पुनश्च डॉ. वसुना स्वीय संशोधनैरेतदपि साधितं यत्
Jain Education International
११०
For Private & Personal Use Only
www.jainelibrary.org.