SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ARTMERMITT I HARITTARAMETER किंनिमित्ताः भूकम्पाः ? ___ -हिन्दीमूलं - डॉ. नेमिचंद जैन - सं.अनुवादः -मुनिकल्याणकीर्तिविजयः सामान्यतः भूमेः अन्तस्तले सम्भूतैः शिलासङ्घट्टनैः ज्वालामुखीयविस्फोटैर्वा भुवः कम्पनं भवतीति जनसाधारणो बोधः । ऐस्वीये १८५६ तमे संवति भारतीयभूकम्पपरम्पराया अनुसन्धाने W.T. ब्लैण्डफोर्ड - फान्सिस फेडन - एड्यूअर्ड स्यूस - अल्फेड वेजनर - T. ओल्धम - R.D. ओल्धम - इत्यादिभिर्वैज्ञानिकैः भूकम्पतरङ्गाणां तलस्पर्शि अध्ययनं कृतम् । चार्ल्स फ्रान्सिस रिक्टर इत्यनेन च भूकम्पस्य तीव्रतां मातुं रिक्टर-स्कैल-इत्याख्यं तीव्रतामापकं प्रमाणमपि विकासितम्। किन्तु एतैर्वैज्ञानिकैः केवलं भौतिका निष्कर्षा एव जगतः समक्षं प्रसिद्धीकृताः । शेषा निष्कर्षाः उपपत्तयश्च जनैनँव ज्ञाताः वैज्ञानिकैर्वा नैव प्रकटिताः कदाऽपि । परन्तु चिन्तनीयं अत्र यद् - भूकम्पनस्य न ह्येकमेव कारणं अथवा तदेव कारणजातं यत् प्रत्यक्षतः दृश्यते - अनुमीयते वा, अपि तु नैकानि अन्यानि कारणानि विद्यन्ते यानि अध्ययनविशेषैरेव ज्ञातुं शक्यानि । विज्ञानस्य हीदं वैशिष्ट्यं यत् - कुत्राऽपि कदाचिदपि कस्याञ्चिदपि परिस्थितौ कतमदपि संशोधनं अध्ययनं वा केनाऽपि क्रियते तदेव अन्तिम सत्यं इति विज्ञानं कदाऽपि न प्रतिद्यते अपि तु भाविनीनां सम्भावनानां कृते स्वीयद्वाराणि सदैव उद्घाटितान्येव स्थापयति । अतो यदा वयं भूकम्पविषयाणि अध्ययनानि समीक्षामहे तदा ज्ञायते यत् तानि एकपक्षीयान्येव सन्ति । तेषु केवलं पार्थिवपक्षस्य भौतिकपक्षस्य चैव विचारणानि कृतानि, तदितरासां परिस्थितीनां तु अभौतिकत्वाद् आधिभौतिकत्वाद् बिजातीयत्वाद् वा अध्ययनं विचारणं वा सर्वथा उपेक्षितं तत्र च गजनिमीलिका एवाऽवलम्बिता । परं ऐस्वीये १९९५ तमे संवति दिल्लीविश्वविद्यालयीयैः त्रिभिरध्येतृभिः डॉ. मदनमोहन १०९ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy