SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सेनल्था विजयशीलचन्द्रसूरिः आसीदेको 'ध्यान'गुरुः । तत्समीपमागत्य एकेन विदुषा विज्ञप्तम्- अहं 'ध्यान' बोद्भुमिच्छामि, बोधयतु माम् । गुरुणा त्वरितमेकं 'चाय' भृतं कच्चोलकं गृहीत्वा पुनरपि तत्र 'चाय'संज्ञकं पेयं प्रक्षेसुमारब्धम् । तत्तु तत्र अवकाशमलब्ध्वा बहिः प्रवहितुं लग्नम् । तद् दृष्ट्वा खिन्नेन विदुषा कथितं - अरे अरे, किं कुरुथ इदम् ? कच्चोलकमिदं भृतपूर्वमेवाऽस्ति, तथापि तत्रैव पुनः पेयप्रक्षेपः किमर्थम् ? इदं तु प्रवहति ! मन्दं स्मित्वा गुरुणोक्तम् - अहमप्येतदेव कथयितुमिच्छामि । भवतां मानसं नैकैर्विकल्पजालैर्बाढं भृतं वर्तते, विकल्पाश्च सततं बहिः प्रवहन्ति । अतस्तत्र 'ध्यान'स्य बोधो यदि प्रक्षिप्येत, तर्हि सोऽपि एतत्पेयवन्नीचैर्वहेत् । अतः प्रथमं मनः रिक्तं करोतु भवान्; पश्चादेव तत्र 'ध्यान' बोधः स्थिरीभवितुमर्हति । १०८ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy